________________
शेषु गृहीतोदारवेषालङ्कारं सारतरविचित्रपरिवारं नानाविधयानवाहनाधिरूढं ब्राह्मणकुण्डग्रामनगराबहिर्बहुशालकचैन । त्ये विमुक्तराज्यपुरपरिजनबन्धुवर्गोऽङ्गीकृतसमस्तसावद्यविनिवृत्तिरूपापवर्गमार्गो विषोढगाढपरीषहोपसर्गोऽतिक्रम्य । सार्द्धषण्मासाधिकद्वादशवर्षमात्रं छद्मस्थपर्यायं विधाय घातिकर्मक्षयं समुत्पाद्याखिललोकालोकप्रकाशनप्रत्यलं केवलं विहरन् ग्रामारामनगराकरविहारमण्डितां वसुमतीं श्रमणो भगवान् महावीरोऽद्य समवसृतस्तदर्शनवन्दनाद्यर्थमेत यात । यास्यथ गता यास्याम इत्याद्यनेकप्रकारं परस्परमालापं कुर्वाणं सकलमेव तन्नगरनिवासिलोकमालोक्य समुत्पन्नकुतूहलः समासन्नवर्त्तिनमाहूय कञ्चुकिनं पप्रच्छ-अहो कोऽयमत्राद्योत्सवप्रकारो यत्र समस्त एव सान्तःपुरपरिजनो जन एष प्रयाति ?, तेन चलोकवाक्यात्पूर्वमेवावगतवृत्तान्तेनोक्तं-यथा ब्राह्मणकुण्डग्रामनगराबहिबेहुशाल्कचैत्ये तवैव || मातुलः श्वशुरश्च श्रमणो भगवान् महावीरः समवसृतस्तद्वन्दनाद्यर्थमेष लोक एवमुत्सुको व्रजति, एतदाकर्ण्य हर्षप्रकर्षोंदिन्नरोमाञ्चो निजसेवकं पार्श्ववर्तिनमवादीद-यथा गच्छ शीघ्रं यानशालायां चतुर्घण्टं रथं साश्वं प्रगुणीकृत्यात्रोपतिष्ठ येनाहमपि भगवद्वन्दनाय गच्छामि, स यथाऽऽज्ञापयति कुमार इत्यभिधाय त्वरितपदैर्भवनान्निश्चक्राम, कुमारस्तु ततः स्थानादुत्थाय मज्जनगृहं जगाम, तत्र स्नात्वा विहितकर्पूरकस्तूरिकामश्रश्रीचन्दनविलेपनो गृहीतसारालङ्कासे यावदास्ते
JainEducation
For Private Personel Use Only
www.jainelibrary.org