________________
च सक्करौ [बलीवदौ] ॥ ४ ॥ ततो हलादिसामग्री, विधाय सकलामपि । विधास्ये कर्षणं तस्माद्यान्यं संपत्स्यते बहु ॥ ५॥ तद्विक्रयेण संजातविचित्रद्रव्यविस्तरः । युक्तः सहायसम्पत्त्या, करिष्ये दारसङ्ग्रहम् ॥ ६ ॥ विचिचित्रविन्यास, कारयित्वा गृहं महत् । भोक्ष्ये भोगानहं पश्चात् , सर्वतोऽपि निराकुलः ॥ ७ ॥ तृप्तिनचैकया मे स्याहार्ययाऽतो द्वितीयकाम् । परिणेष्यामि कालेन. पुत्रौ ताभ्यां भविष्यतः॥८॥ एकाऽतिवल्लभाऽन्या च न तथा पुत्रकावपि । एवंप्रायौ तयोः स्यातां, ततः खटागतस्य मे ॥ ९॥ गवां दोहनवेलायां स्वबालं मेऽपयिष्यति । यदाभीष्टा तदा बाढमपादास्ये तमंजसा ॥१०॥ अपरस्यास्तनजं तु. किञ्चिदर्शितविप्रियम् । पाणिना प्रेरयिष्यामि।
चिन्तयन्नेव सेदृशम् ॥ ११ ॥ आशापिशाचिकावेशाविवशे दक्षिणेतरम् । पादमुत्क्षिप्य चिक्षेप, पाणि दुग्धघटं प्रति In १२ ॥ तत्प्रहारेण भग्नोऽसौ, क्षीरं भमौ जगाम तत् । ज्ञात्त्वैवमार्चचिन्ता भो!, नैव कार्या विवेकिभिः ॥ १३॥
रौद्रापध्यानाचरिते तु प्रसन्नचन्द्रो राजमुनिर्दुर्मुखवचनश्रवणसमुपजातकोपो मनसैव सङ्ग्रामं कुर्वाणो निदर्शनं, स. च प्रागेव शिवकथानकप्रस्तावे निदर्शितः, रौद्रध्यानलक्षणं चेदम्-संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमपयाति च नानुकम्पा, ध्यानं तु रौद्रामिति तत्प्रवदन्ति तज्ज्ञाः ॥ १॥ गुरुप्रमादा
Jain Education inte
For Private Personal Use Only
Jainelibrary.org