SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ नतिरेकसमासादितशैलेश्यवस्थानां च समजनि निर्वाणगमनं, सकलसाधुपर्यन्ते च लघुक्षुल्लकपीलनोद्यतं पालकं बभाण ! सूरि:-यथैते भवता मत्साधवः पञ्चशतसङ्ख्याः पीलिताः, केवलं संहननादिबलोपेतैरेतैः सम्यक् सोढस्त्वदुपसर्गः, अयं च बालः पील्यमानः किमपि करिष्यतीति न जानामि, तदेष तिष्ठतु तावन्मामेव प्रथमं पीलय येन न पश्याम्यहमेतदुःखं, ततोऽसाववगणय्य सूरिवचनं यथा महदुःखमस्य भवति तथा मया कर्त्तव्यमिति बुद्ध्या क्षल्लकमेव पीलयामास. ततः कोपमुपागताः सूरयः पश्य दुष्टात्मनाऽनेन मदीयमेकमपि वचनं न कृतं तदस्ति यदि मदनुचीर्णतपसः किञ्चित्फलं तदाऽहमागामिभवे भवेयं न केवलमेतद्वधाय, किन्तु राज्ञोऽपि सपौरपरिजनस्य, यतो राजाप्ययमेवंप्राय एव य एवंविधानां पापकर्मणामवकाशं ददाति, लोकोऽपीदृश एव य एवं कुसङ्गतिपरायणस्य नरपतेनगरे प्रतिवसति, एवं च कृतनिदानस्तेन पीलितो मृत्वाऽग्निकुमारेषूत्पन्नः, क्षुल्लकस्तु शेषसाधुवदाराधकः संवृत्तः, प्रभाते च तदीयरजोहरणं शकुनिकया रुधि-। रदिग्धं करभ्रान्त्या समुक्षिप्य नीयमानं भवितव्यतावशेन निपतितं पुरन्दरयशोदेवीभवने तदग्रतो; दृष्टं तया, हा ।। न कुशलं मदीयभ्रातरिति विचिन्तयन्ती यावदीक्षाञ्चक्रे तावदसावप्यग्निकुमारो भवप्रत्ययविभङ्गविज्ञातपूर्वत्र Jain Educa t ional For Private & Personal Use Only ILIE www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy