________________
Jain Education
भूत्वा सुगतिभाजनं संवृत्ता इति । अग्नौ तु दृष्टान्तः - श्रावस्त्यां नगर्या जितशत्रुपुत्रः स्कन्दकाभिधानः कुमारो बभूव, तद्भगिनी पुरन्दरयशाः सा च कुम्भकारकटनगरस्वामिना दण्डकिना राज्ञा परिणीता, कदाचिच्च जितशत्रुसमीपं समुपागतः पालकनामा पुरोहितो नास्तिकवादी, नास्तिकमार्गप्ररूपणां कुर्वाणः स्कन्दकुमारेण सार्वज्ञ|मतावदातबुद्धिना निष्पृष्टप्रश्नव्याकरणः कृतः प्रद्विष्टो बभूव, निष्काशितो जितशत्रुणा, भवितव्यतावशेन गतो दण्डकिपार्श्व, स्कन्दकस्त्वन्यदा मुनिसुव्रतस्वाम्यन्तिके सञ्जातवैराग्यो राजपुत्रपञ्चशतपरिवारः प्रतिपेदे दीक्षां क्रमेण गृहीतद्विविधशिक्षो गीतार्थो निवेशितः सूरिपदे, तान्येव पश्च शतानि राजपुत्राणां संपन्ना शिष्यसम्पत्, विज्ञप्तोऽन्येयुः | स्वामी स्कन्दकाचार्यैः - यथा भगवन् ! व्रजामि युष्मदनुज्ञया पुरन्दरयशः प्रभृतिप्रतिबोधनाय कुम्भकारकटनगरं, भगवताऽपि मुनिसुव्रतस्वामिना निरदेशि - प्राणान्तिकस्तत्रोपसर्गः तेनोक्तं- किमाराधनाफलो विराधनाफलो वा ?, तीर्थ| करेणोदितं त्वां मुक्त्वा शेषाणामाराधनाफलः, ततश्चलितोऽसौ तत्र स्वामिनमभिनम्य, पालकेनापि कथञ्चित्तदागमनमबबुध्यानागतमेव साधुयोग्योद्यानभूमौ निखातानि नानाविधायुधानि, प्राप्ताश्च क्रमेण विकालवेलायां तत्र सूरयः, पुरन्दर| यशाश्च तदागमनमवबुध्यानन्दभरनिर्भरा तां शर्वरीमने क मनोरथशतैरतिवाह्य प्रभातसमये समं राज्ञा गता वन्दनार्थे, विधि
For Private & Personal Use Only
www.jainelibrary.org