SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ चतुःसङ्ख्याः 'जिनाख्याताः , सर्वज्ञोदिता इति गाथासक्षेपार्थः, विशेषार्थस्त्वयं-पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे बाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्ता कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्ररणं हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम् , अपध्यानाचरितं चातरौद्रचिन्तानुगतं, यथा-जायन्तां मम लक्षम्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवों भद्रं वा यन्मृतोऽयमिह || ॥ १॥ गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यातव्यसनविषयलाम्पठ्यकषायवशवर्तितादि । वा, एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्याथा लिख्यन्ते, तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थितिं धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुनैमित्तिको राजसभामुपस्थितः, राज्ञा चासौ पृष्टः-यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं-यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभत्याः, न च तैस्तादृशः कोऽपि प्राप्तः, समागत्य निवेदितं नरेन्द्राय, गदितं चैकेन-देव ! यथोक्तगणोऽयमेव विद्यते, ततः स For Private Personal Use Only Plwjainelibrary.org Jain Education intITE
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy