________________
श्रीनव० बृह वृत्तौ अन र्थदण्डे
।। २२६ ।।
Jain Education Int
इति शेषः ' तं तु होइ अडाए' तद् ' भवति जायतेऽर्थाय - सार्थकं - सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु - त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय - निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलता |छेदन कुकलाशमारणादिवत् ' तव्त्रिरइ गुणव्त्रयं तइयं ' ति तस्य अनर्थदण्डस्य विरमणं विरतिः - परिहारः, किम् ? | गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिष्णि गुणव्वयाणि, तंजहा - दिसिव्त्रय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः ॥ इतोऽस्यैव भेदद्वारगाथा -
पावोवएस १ हिंसयाण २ अवझाण ३ गुरुपमायरियं ४ |
या अणत्थदंडस हुंति चउरो जिणक्खाया ॥ ८५ ॥
पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् | अपध्यानगुरुप्रमादाचरितं पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येक सम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, भेदाः ' विकल्पाः ' अनर्थदण्डस्य * अप्रयोजनप्राणातिपातादिव्यापारस्य भवन्ति जायन्ते " चत्वारः
For Private & Personal Use Only
·
स्वरूपभेदद्वारे गा. ८४-५
।। २२६ ॥
Talww.jainelibrary.org