________________
श्रीनवपद
हमोगोपभोग०
॥२४॥
यद्याद्यपक्षौ तदा तृतीयतुर्याभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्कास्तदा निरवद्यत्वादेतद्भक्षणस्य नातिचार- अतिचाराः त्वम्, सत्यं, किन्तु यथाऽऽद्यहयोत्तरद्वययोस्तुल्येऽपि सचित्तत्वेऽनौषध्यौषधिकृतो विशेषः एवमत्र सचेतनत्वौषधित्वाभ्यां । समत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषः, तत्र च कोमलमुद्गादिफलीफलिकाखादकोदाहरणप्रतीतविशिष्टतृप्त्यकारकत्वेन | तुच्छाः सचेतना एवानाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचिताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात, यत्पुनस्तृप्तिसम्पादनासमर्था अप्यौषधीलौल्यनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वाद्, एवं रात्रिभोजनमांसादिवतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः। यहाऽशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खाये वृन्ताकादि स्वाद्ये त्रससंसक्तताम्बूलपत्रादि गृहीतोपभोगप | रिभोगव्रतेन श्रावकेण त्याज्यमतस्तदासेवनेऽप्यनाभोगातिक्रमादिना कस्यचित्केचनातिचारा वाच्याः, विचित्रत्वाइतस्य गाथोक्तसचित्तादिपदानामुपलक्षणत्वादिति गाथाऽर्थः ॥ अतिगतमतिचारहारं, भङ्गवारस्येतोऽवसरस्तत्रेयं गाथा--
२२४
Jain Education inte
For Private
Personel Use Only
aw.jainelibrary.org