________________
येत्। त्यजेत् 'पञ्चातिचारान् । पञ्चसङ्ख्यव्रतविराधनाविशेषान् , अत्र कश्चिदाह-यद्युत्सर्गतः सचित्तवर्जकः । श्रावको भवति तदा सचित्ताहारेण तस्य भङ्ग एव भविष्यति, कथमतिचारत्वमत्र ?, उच्यते, यस्तु प्रथममेवेत्यादिनैवास्य प्रतिविहितत्वात् तथाहि-योऽनाभोगसहसाकाराभ्यामतिकपादिभिर्वा सचित्ते प्रवर्तते तस्य तर्जकस्याप्यतिचारत्वं, सचित्तप्रतिबद्धाहारस्य त्वन्यथाऽप्य-िचारवं संभाव्यते, यदाऽस्थिकं त्यक्ष्यामि कटातु भक्षयिष्यानीतिबुढ्या पक्वखर्जूरादिफलं मुखे प्रक्षिपति तदाऽऽभोगेनापि व्रतसापेक्षत्वात्सचित प्रतिबद्धाहारातिचारः, अपरस्त्वाहअपक्वौषश्यः सचेतना अचेतना वा?, यदि सचेतना तदा सचित्तपित्यादिपनैवोक्तार्थत्वात्पुनर्वचनमसङ्गतं, अथाचेतनास्तदा कोऽतिचारो ?, निरवद्यत्वात्तद्भक्षणस्येति, अत्रोच्यते, सत्यमेतत, किन्त्वाचावतिचारौली सचेतनकन्दफलादिविषयौ इतरे तु शाल्यौ(ल्यायौ षधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे 'अप्पउलिओसहिमक्खणया ' इत्यायुक्तं, अतिचारत्वभावना त्वनाभोगादिना कार्या, यहा कणिक्कादरपक्वतया संभवत्सचित्तावयवस्य षिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पकौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवत्सचेतनावयवस्य पक्वत्वादचेतनमितिबुद्धया भुञ्जानस्यातिचारो, ननु तुच्छौषधयोऽपक्का दुष्पक्वाः सम्यक्पक्का वा ?
Jain Education inte
For Private Personal Use Only
www.jainelibrary.org