________________
Jain Education
कचिद्विसंवादे हतः क्षुरिकयैकेन द्यूतकारेण मर्मदेशे, ज्ञातो वृषभदत्तेन नेतुमारब्धः प्रतिजागरणाय स्वगृहं, न च गतोऽसौ, ततस्तत्रैव दत्तानशनो नमस्काराद्याराधनाकारणपूर्व नियमित उपादि जम्बूद्वीपस्वामी यक्षनिकायेऽनादृतनामा यक्षः, अयं चात्मीयभ्रातृजस्य जम्बूस्वामिनो भाविनीं कल्याणमालिकां निशम्य हर्षातिरेकादेवं नृत्यति पुनः श्रेणिक उवाच - भगवन् ! विद्युन्मालिदेवस्य प्राग्जन्मगुरुर्जन्मान्तरभ्राता सागरदत्ताचार्यों व्रतमनुपालय क्व गतः ?, स्वामिना निरदेशि - उत्पाद्य विमल केवलमवबोध्य विशिष्टभव्यसङ्घातम् । सिद्धिपुरीं सम्प्राप्तो व्यपगतकर्मा महात्माऽसौ ॥ १ ॥ प्रकृतोपयोगिशिवभवसम्बन्धेनात्र लेशतः कथितम् । चरितं जम्बूनाम्नस्तच्चरिताद्विस्तरो ज्ञेयः ॥ २ ॥ उक्तमुरभोगपरिभोगपरिमाणकरणे गुणद्वारम् अधुनाऽस्यैव यतनाद्वारमुच्यते
I
जत्थ बहूणं घाओ जीवाणं होइ भुज्जमाणंमि । तं वत्युं वज्जेज्जा अइप्पसंगं च सेसेसु ॥ ८० ॥
6
,
यत्र यस्मिन् वस्तुनीत्याद्यर्थसम्बन्धाद्गम्यते ' बहूनां प्रचुराणां 'घातः विनाशः 'जीवानां प्राणिनां ' भवति जायते ' भुज्यमाने ' आसेव्यमाने 'तहस्तु तं पदार्थ ' वर्जयेत्
परिहरेत्, 'अतिप्रसङ्गं च ' अति
For Private & Personal Use Only
www.jainelibrary.org