________________
वृत्तं
.२२२॥
श्रीनवपद- विहितपुत्रजन्मप्रश्नायाः सिद्धपुत्रादिष्ट एवं सिंहस्वप्नसूचितो जम्बूनामा तनूजो भूत्वा प्राप्तयौवनो महेभ्यकन्यका अनाहतदेव भोगा | अष्टौ परिणीय ताश्च कर्षकादिदृष्टान्तानुपदर्शयन्तीस्तत्प्रत्युत्तरकरिकलेवरायुदाहरणैः प्रतिबोध्य प्रभवराजपुत्रं च
पञ्चशतसङ्ख्यचौरपरिकरितं प्रज्ञाप्य भगवतः सुधर्मस्वामिगणधरस्य पार्श्वे गृहीत्वा प्रव्रज्यां क्षपकश्रेणिसमारोहणपूर्व - केवलज्ञानमुत्पाद्य सिद्धि यास्यतीति, न चात ऊर्ध्वं कश्चित्केवलज्ञानमुत्पादयिष्यति, अतो भणितं मया, यथा
एतस्मिन् सुरे व्यवच्छेत्स्यति केवलम् । यच्च परिहीयमाणातयो देवाश्च्यवनसमये भवन्ति, अयं तु निजतेजसा सूर्यद्वादशकमपि परिभवतीति पृष्टं तत्र शिवजन्मविरचितमहातपश्चरणफलमेतत्, एतच्च भगवतो महावीः | रस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देवः अहो !
ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्तितुमारेभे, ततः श्रेणिकेनोक्तं-91 ka कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच-श्रेणिक ! शृणु-अत्रैव नगरे बभूव मूर्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभ
दत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इत- B ॥ २२२ ॥ रश्च निष्काशितः सकलजनसमक्षं स्वगृहात, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाण-||
www.jainelibrary.org
For Private
Personal Use Only
Jan Education Internationa