SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte यावज्जीवं गृहे वासो गृहीता च भावप्रव्रज्या, दृढधर्मेणोक्तं- कुमार ! युक्तमिदं, केवलमाहारत्यागो नोचितो, यतः आहारमूलं शरीरं शरीरमूलो धर्मों धर्ममूलाच मोक्षसुखप्राप्तिः तदङ्गीक्रियतामाहारः, तेनोक्तंयदि यतिजनयोग्यः संपद्यते तदाऽङ्गीक्रियते, दृढधर्मेणोक्तं - अहं सम्पादयिष्यामि भावसाधोभवतस्तं, यतः कुशलोऽहमाहारकल्प्या कल्प्यविचारे, ततः प्रतिपन्नमनेन, केवलं यावज्जीवं मया षष्ठभक्तेनाशितव्यं, तदन्ते चाचाम्लेन पारणीयं ततोऽसौ संपादितवानस्यैवंविधं षष्ठात् षष्ठादाहारं तत्पित्रोश्चाकथयद् यथाभोजितः कुमारः, ततस्तुष्टाभ्यां कारितो नगर्यो प्रधानोत्सवः, उपवासदिवसेषु च करोति जीवादिपदार्थविचारसारामसौ देशनां, एवं च तिष्ठतोऽस्य कुर्वन्त्यनेकप्रकारान् क्षोभणोपायान् सकलत्रादिलोकाः, न च क्षुभितोऽसौ महासत्वः ततः षष्ठात्षष्ठाज्जघन्येन, सोवीरोदनपारणः । यापयामास वर्षाणि स द्वादश तपश्चरन् ॥ १ ॥ ब्रह्मचारी गृहस्थोऽपि, विधायाराधनामसौ । मृत्वाऽन्यदा ब्रह्मलोके, विद्युन्माली सुरोऽभवत् ॥ २ ॥ तस्मि चतुर्देवीपरिवृतो देवलोकोचितं सुखमनुभवनिनाय दश सागरोपमाणि, सम्प्रति च सप्तदिनमिवशिष्टमायुरुपभुज्यैष वृषभदत्तश्रेष्ठिनो धारिणीभार्याया धर्मघोषसूरिसमीपेोपविष्टस्य सिद्धपुत्रस्य जम्बूद्दीपनिबन्धनं जम्बूवृक्षपृच्छावसाने For Private & Personal Use Only के Www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy