________________
भीनवपद६ हमोगोपभोग
चेतः, अतो विसर्जयत मां येन सागरदत्तसमीपे भवभयप्रणाशिनी स्वीकरोमि प्रव्रज्यां, तच्छ्रुत्वा मूर्छया छिन्न- शिवकुमार
वैराग्य मूलस्तम्बाविव द्रुमौ निपेततुर्भुवः पीठे तौ शोकाकुलमानसौ-कथञ्चिच्चेतना लब्ध्वा, प्राहतुस्तनुजं प्रति । द्विती. यवारं नो वत्से !, भावणीयमिदं वचः ॥ २ ॥ ततस्तदाग्रहं ज्ञात्वा, मौनमादाय संस्थितः । सर्वसावद्यसंत्याग-6 सुस्थितस्त्यक्तभोजनः॥ ३ ॥ ततो जननीजनकाभ्यां भणितोऽपि यदा न भुङ्क्ते न चान्यस्य कस्यचिद्वचनं विदधाति तदाऽऽदायितो दृढधर्मनामा तीर्थकरशासनानुरक्तः परमश्रावकः श्रेष्ठिपुत्रः, समागतश्च भणितो, यथा-वत्स ! शिवकुमार आवाभ्यां प्रव्रज्याग्रहणनिरुद्धो मौनमाश्रित्य स्थितो भोक्तुमपि नेच्छति, अनेन च शोकावेगेन निर्मूलमुन्मूल्यत इबास्मन्ननः, तदन्तःपुरे भवनोदरे वा यत्र तत्र स्थितं शिवकुमारमाभाष्य भोजय केनापि प्रकारेण,kal तेनोक्तम-एवं करोमि, ततो गतोऽसावन्तःपुरव्यवस्थितस्य तस्य समीपं विधाय नैषेधिकी प्रतिक्रम्येर्यापथिकी दत्त्वा द्वादशावर्त्तवन्दनकमनुजानीत मामिति ब्रुवाणः प्रमृज्योचितभूमिमासीनः शिवकुमारान्तिके, तेन चिन्तितम्-अहो ! असाविभ्यपुत्रः साधुविनयं मम प्रयुज्योपविष्टस्तत्पृच्छाम्येनं, ततः पृष्टोऽसौ, तेनाप्युक्तं--गावसाधुभवांस्तेन मयाऽयं " तव विनयः प्रयुक्तः, पुनर्भणितं च-यथा किं निमित्तं त्वया भोजनं परिहतं ?, शिवकुमारेणोक्तं-मया त्यक्तो ।
२२१॥
Jan Education International
For Private Personel Use Only