SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सागरदत्त देशना श्रीनवपदव. कैषणीयाहारप्रकारैः, अत्रान्तरे भक्तिसमागतैर्गगनतलवर्तिभिर्देवादिभिः कृता सहिरण्या गन्धोदकपुष्पवृष्टिः, हभागोपभोग dमिलितस्तत्र सकलो नगरीलोकः, शिवकुमारोऽपि जनादवगततवृत्तान्तः समागतस्तत्र, विलोक्य यतीश्वरं पूर्वभवानु. वेधेन तदुपरि समुत्पन्नस्नेहातिशयो ववन्दे भावसारं, मुनिस्तु दत्त्वा धर्मलाभं गृहीताहारो गतस्तदेवोद्यानं, व शिवकुमारप्रभृतिलोकश्च मुहुः श्रेष्ठिप्रशंसां मुहुः साधुस्तुतिं विदधानो गत्वा स्वस्थानानि पुनः पारणकावसाने सागरदत्ताचार्यस्य वन्दनाय ययौ, प्रदक्षिणात्रयकरणपूर्व प्रणम्य भगवत्पादारविन्दद्वयमुपविवश च स्वोचितभूप्रदेशे, सृरिणा तु धर्मलाभपुरःसरं संभाष्यैनमारब्धा धर्मदेशना, यथा-भो भो ! जन्मजरामृत्युरोगोपद्रुतदेहिनाम् । शरणं नास्ति संसारे, मुक्त्वैकं जिनशासनम् ॥ १॥ एतदाराधनापूर्व, दग्ध्वा कर्मवनं यतः । विलय । भवकान्तारं, प्राप्ता मोक्षं महाधियः ॥ २॥ अपिच-यथा जीवदयाऽमुत्र, प्रोक्ता जीवादिविस्तरम् । प्ररूप्य सदुपायेन, तथा नान्यत्र कुत्रचित् ॥ ३ ॥ अत एवैतच्छासनव्यवस्थिताः-न खलु न खलु सन्तः सत्त्ववन्तोऽल्पवीर्यान, निजसुखलवलोभादेहिनो दुःखयन्ति । मदमलिनकपोलस्तुच्छ मेरण्डदण्डं, श्रयति किमु करीन्द्रो गण्डकण्डूयनाय ? ॥४॥ एतदाकर्ण्य शिवकुमारश्चिन्तयामास-सत्यमिदमुपदिष्टं भगवता, केवलं परिपूर्ण जिनाज्ञाकरणमन्तरेण न । U BRON Jain Education Interi ! For Private Personal use only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy