SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सागरदत्त देशना श्रीनवपदव. कैषणीयाहारप्रकारैः, अत्रान्तरे भक्तिसमागतैर्गगनतलवर्तिभिर्देवादिभिः कृता सहिरण्या गन्धोदकपुष्पवृष्टिः, हभागोपभोग dमिलितस्तत्र सकलो नगरीलोकः, शिवकुमारोऽपि जनादवगततवृत्तान्तः समागतस्तत्र, विलोक्य यतीश्वरं पूर्वभवानु. वेधेन तदुपरि समुत्पन्नस्नेहातिशयो ववन्दे भावसारं, मुनिस्तु दत्त्वा धर्मलाभं गृहीताहारो गतस्तदेवोद्यानं, व शिवकुमारप्रभृतिलोकश्च मुहुः श्रेष्ठिप्रशंसां मुहुः साधुस्तुतिं विदधानो गत्वा स्वस्थानानि पुनः पारणकावसाने सागरदत्ताचार्यस्य वन्दनाय ययौ, प्रदक्षिणात्रयकरणपूर्व प्रणम्य भगवत्पादारविन्दद्वयमुपविवश च स्वोचितभूप्रदेशे, सृरिणा तु धर्मलाभपुरःसरं संभाष्यैनमारब्धा धर्मदेशना, यथा-भो भो ! जन्मजरामृत्युरोगोपद्रुतदेहिनाम् । शरणं नास्ति संसारे, मुक्त्वैकं जिनशासनम् ॥ १॥ एतदाराधनापूर्व, दग्ध्वा कर्मवनं यतः । विलय । भवकान्तारं, प्राप्ता मोक्षं महाधियः ॥ २॥ अपिच-यथा जीवदयाऽमुत्र, प्रोक्ता जीवादिविस्तरम् । प्ररूप्य सदुपायेन, तथा नान्यत्र कुत्रचित् ॥ ३ ॥ अत एवैतच्छासनव्यवस्थिताः-न खलु न खलु सन्तः सत्त्ववन्तोऽल्पवीर्यान, निजसुखलवलोभादेहिनो दुःखयन्ति । मदमलिनकपोलस्तुच्छ मेरण्डदण्डं, श्रयति किमु करीन्द्रो गण्डकण्डूयनाय ? ॥४॥ एतदाकर्ण्य शिवकुमारश्चिन्तयामास-सत्यमिदमुपदिष्टं भगवता, केवलं परिपूर्ण जिनाज्ञाकरणमन्तरेण न । U BRON Jain Education Interi ! For Private Personal use only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy