SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Jain Education विभूत्या पाणिग्रहणं, तया सह विषयसुखमनुभवता परिणीता अन्या अप्युदग्रयौवना निरुपमरूपलावण्यादिगुणगणोपेता अनेका महासामन्तदुहितरः, ताभिः सहानेकप्रकारजीव लोकसार क्रीडाविकारपरायणस्यान्यदा समाजगाम श्रमणसमूहसमन्वितस्तन्नगर्यामेव सागरदत्तसूरिः, आवासितो लक्ष्मीनन्दनाभिधानोद्याने, प्रारब्धं च तत्र तेन मासक्षपणं, इतश्च तस्यामेव नगर्यमासीत् निजविभवपरितुलितवैश्रमणः कामसमृद्धो नाम सार्थवाहः, तस्यान्यदा भोज - नसमये समुदपादीयं चिन्ता, यदुत - अस्मत्सदृशाः केचन दूरपरित्यक्तमरणसंत्रासः । अजरामरा इवोच्चैः कुर्वन्ति धनार्जनं मूढाः ॥ १ ॥ अगणितशीतोष्णभयास्तरन्ति जलधिं धनाशया पुरुषाः । प्रविशन्ति च भटसङ्कटसङ्ग्रामेऽत्यन्तभयजनके ॥ २ ॥ किं बहुना ? दुष्करतरमिह यत्तत् सर्वमेव विभवार्थी । विदधाति भवति चासौ प्रहीणलाभान्तरायस्य ॥ ३ ॥ अपिच - एवं कष्टोपार्जितमपि यदि तद्भवति साधुलोकस्य । उपकाराय द्रव्यं तद् भवेत्सफलमेवैतत् ॥ ४ ॥ यतः - किं प्रचुरयाऽपि लक्ष्म्या तया न या यतिजनोपयोग्या स्यात् । कृपणप्राणप्रियया संसारविवृद्धि - कारिण्या ॥ ५ ॥ एवं च चिन्तयतोऽस्य भवितव्यतानियोगेन समाजगाम मासोपवासपारणार्थं सागरदत्तमुनिवरो गृहद्वारं दृष्टः प्रमोदोत्फुल्ललोचनेनासौ, अनेनाभ्युत्थायाभिवन्द्य च प्रतिलाभितः प्रवर्द्धमान शुभाध्यवसायेन प्राशु. 2 For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy