SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद हभोगोपभोग०. | रममाणस्य प्रीत्या जगाम कियानपि कालः, अन्यदा सकलसुरासुरमनष्यविद्याधरादिलोकप्रवर्तितविविधोत्सवः शिवकुमारसमायातो वसन्तसमयो, यत्र-कोकिलकुलकलरवगीतजनितजननिवहमानसानन्दा । सहकारमञ्जरीरेणुरञ्जिता भाति मधुलक्ष्मीः ॥ १॥ तस्मिंश्च शिवकुमारो निजमित्रवृन्दसमन्वितः क्रीडानिमित्तं ययौ चन्द्रकिरणोद्यानं, तत्र चापश्यत् कनककेतो राज्ञः प्रियङ्गश्यामाया महादेव्याः कनकवतीदुहितरं, या च-निःशेषाङ्गोपाङ्गप्रतिष्ठितप्रव-a रलक्षणशरीरा । अपहरति मनो नूनं विलोकिता मुनिजनस्यापि ॥ १॥ तस्या दर्शनमात्रेणैव शिवकुमारः स्मरशरप्रहारजर्जरितमानसो विचिन्तयामास-यथा यथाऽसौ प्रविलोक्यमाना, विवेश मे मानसमस्तदोषा । तथा तथा चापनिवेशितेषुः, करोत्यनङ्गो निखिलाङ्गबाधाम् ॥ १ ॥ अत्रान्तरे तयाऽप्यपरापरतरुविलोकनकुतूहलेन परिचरणमाचरन्त्या चन्दनलतागृहान्तरितो मूर्त्तिमानिव मकरध्वजो ददृशेऽसौ, तदः । नन्तरं कुसुमकेतुरोपपञ्चकोपघातविवशीकृता साऽपि लक्षिता सखीजनेन कथंकथमपि नीता गृहं । ज्ञापितश्चायं वृत्तान्तरतज्जनन्याः तया च स्वभर्तुः, ततः क्रमेण द्वयोरपि गाढानुरागजायमानसङ्गमाभि- २१९ ॥ लाषयोः कनककेतुना गत्वा पद्मरथसमीपं प्रदाय स्वसुतां शिवकुमारस्य प्रशस्ततिथिकरणलग्नमुहर्तेषु कारितं महा Jain Education International For Private 3 Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy