________________
श्रीनवपद हमोगोपभोग
सागरदत्तस्य वैराग्यं
॥२१८॥
नवलोकयाञ्चके ॥८॥ विद्रुमवर्ण क्वचिदपि शिखिकण्ठसमप्रभं कचित्क्वापि । उत्तप्तसुवर्णनिभं कुत्रापि शशाङ्कबिम्बसमम् ॥ ९॥ इत्थं विचित्रवर्णकरमणीयमदभ्रमाभ्रसङ्घातम् । क्षणमात्रेण विलीनं ज्ञात्वा तं चिन्तयामास P॥१०॥ यथाऽयं मेघसङ्घातो, दृष्टनष्टो नभोऽङ्गणे । तथा सांसारिका भावाः, सर्वेऽमी क्षणनश्वराः ॥ ११ ॥
तदेष नोचिता कर्त, क्वचिदास्था विवेकिभिः । किन्तु निःशेषसद्धर्मकर्मण्येव शिवप्रदे ॥ १२ ॥ एवं चिन्तयतोऽस्य विलोक्य वैराग्यविच्छायवदनकमलमुक्तं सप्रणयं प्रणयनीभिः-प्रियतम ! किमेवं महतमात्रेणैवोद्विग्न इव विरक्त इव निर्विण्ण इव मुनिरिव कृतमौनव्रतो लक्ष्यसे ?, सागरदत्तेनाभाणि-विलोक्य शारदं मेघमुत्थितं गगनाङ्गणे ।। क्षणेन विलयं यान्तं, भीतोऽहं भवविस्तरात् ॥ १॥ यतः-देहः स्वजनसम्बन्धो, यौवनं राज्यसम्पदः । पश्यतामेव । संसारे, ध्वंसमायान्ति देहिनाम् ॥ २ ॥ तदनेन शरीरेण, क्षणनश्वरधर्मणा । जिनदीक्षां गृहीत्वा चेत्क्रियते निर्मलं तपः॥३॥ तदैव जन्मसाफल्यं, मन्येऽहमिति तद्वचः । श्रुत्वा ता आहुरेवं चेहिलम्बः क्रियते किमु ? ॥ ४॥ विज्ञाय यतो धीराः पटुपवनविधूतजलधिजलतरलम् । जीवितमनिधनशिवसुखकृताभिलाषाश्चरन्ति तपः॥ ५॥ सागरदत्तः प्राह-यद्येवं तर्हि विमोच्य पितरौ कुर्म एवं, ततो गतो मातपितसमीपं, महाकष्टेन मोचयित्वाऽऽत्मानममृत
Jain Education in
For Private & Personel Use Only
allww.jainelibrary.org