SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ विज्ञानकलाकलापशालिनी, महासामन्तकन्याः समं ताभिः कदाचित्प्रहेलिकाप्रश्नोत्तरादिविनोदेन कदाचिजिन-10 भवनेषु विशिष्टयात्रास्नात्रादिविधापनेन कदाचिन्मनिजनोपदिश्यमानसद्धर्मरहस्यश्रवणेन कदाचित्सकलजीवलो-11 कसारविषयसुखनिषेत्रणेन निनाय सुखेनानेकवर्षकोटिलक्षान्, अन्यदा च सर्वसत्त्वानन्दकारकः समाजगाम प्रथमघनसमयो, यत्र-निपतदतुच्छनिरन्तरधाराजलपूरपूरितपृथिव्याम् । निम्नोन्नता विभागा लक्ष्यन्ते नैव पथिकजनैः ॥ १ ॥ हरगलगवलच्छायैर्जलदैराच्छादितं तथा गगनम् । उदयास्तमयौ लोकैर्यथा न Vतरणेः प्रतीयते ॥ २ ॥ निनाथमिवेलातलमशेषमनुताप्य महियोगेऽसौ । क्व नु यास्यतीति मेघो । गर्जेति तज्जेतुमिव निदाघम् ॥ ३ ॥ क्षणदृष्टनष्टरागास्तडिल्लताः खलजनस्य भव्य इव । न तथा प्रकाशतोषं जनयन्ति यथा समद्वेगम् ॥ ४॥ एवंविधधनसमयेऽतिक्रान्ते च क्रमेण संप्राप्तः । कमलवनबन्धुभ विकाशिकाशः शरत्कालः ॥ ५॥ यस्मिन्नुत्फुल्लकुवलयाक्षी विकशितसत्कुमुदहासिनी जाता । अनुरागाद्भूमिवधूः प्रियमिव लब्ध्वा शरत्समयम् ॥६॥ उच्छलितविमलतारकदशनोज्ज्वलकिरणपूरितदशाशम् । हसितं शारदलक्ष्म्या सद्यो निजदयितसङ्ग इव ॥ ७ ॥ ईदृक्षशरत्समये सागरदत्तो निजप्रियायुक्तः । प्रासादशिखरवर्ती क्रीड Jain Education anal For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy