________________
शालगुडादिप्रहारजर्जरितं कुर्वन्नेकतोऽन्यतो जनकरूपेण प्रतिपादयामास, यथा 'क्षान्त ! न शक्नोमि प्रथमालिकां विनाऽऽसितुमित्यादि यावन्नाहमलमविरतिकां विना स्थातुं ततोऽस्य पुनः पुनस्तामेव वचनरचनामाकर्णयतोऽ भदिदं चेतसि-यथा श्रुतपूर्वा मयेयं वर्णावली, रूपं चैतदृष्टपूर्वमिव ममाभाति, एवमीहापोहमार्गणगवेषणं कुर्वतस्तदावरणीयकर्मक्षयोपशमेन जातं जातिस्मरणं, ततो विज्ञातपूर्वभववृत्तान्तो गतः संवेगं, स विरक्तः संसारवासस्य, अत्रान्तरे प्रकटित आत्मा देवेन कृता धर्मदेशना परिणता भावसारं प्रतिपन्नाणुव्रतः कृतभक्तप्रत्याख्यानः शुभध्यानोपगतः पञ्चनमस्कारपरायणः स्थित्वा दिनद्वयं तृतीयदिवसे मृतो जातः सौधर्मदेवलोके देवत्वेन महिषः, सुरस्तु । गतः स्वस्थानम् । एवं च ज्ञात्वा दुरन्तविषया विवर्जनीया जिनमतकुशलेन, अपिच-परत्रामुत्र च प्राप, यथाऽसौ विप्रपुत्रकः । दुख तथा व्रतभ्रष्टो, मा प्रापस्त्वमपीदृशम् ॥१॥ इत्थं संबोधितो नागिलया भवदेवसाधुतः परमवैराग्यं, अत्रान्तरे नागिलयैव सह समागताया ब्राह्मण्याः सुतेन भणिता जननी, यथा-मातः ! मम वमनं भवितुकाममालक्ष्यते तदानय शीघ्रं किमपि भाजनं येन तत्र वमित्वाऽतिमिष्टं पायसं पुनर्भीक्ष्ये, ब्राह्मण्योदितं-वत्स! नैतदुचितं. यतोऽतिमिष्टमपि यहान्तं न तत्परिभुज्यतेऽशुचित्वात, तच्च श्रुत्वा भव
Jain Education
For Private 3 Personal Use Only
ww.jainelibrary.org