SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Jain Education दे र्थकामानामेकोऽपि न हि विद्यते । अजागलस्तनेनेव, जन्मना तस्य को गुणः १ ॥ १ ॥ तदिदानीं मे सकलजन्तुनिकृष्टस्य प्रियप्रणयिनीविप्रयुक्तस्यापुण्यचडामणेर्मरणमेव श्रेयः, अथवाऽकृतसुकृतानां मरणेनापि किं ?, तस्मात्तावद्विदधामि नानाविधतीर्थावलोकनं तेषु च पुण्यस्थानेषु स्नातो विधूतपापो यदि मरणमाराधयामि तथाऽपि न दोष इति विचिन्त्य यथाप्राप्ति प्रदाय कन्याफललिप्सया ब्राह्मणदारकेभ्यः स्वपुत्रिकाः समं तेन लघुना तनयेन चलितस्तीर्थयात्रायां, लघुकर्मतया च कथञ्चित्तथाविधभवितव्यतावशेन जातं तस्य कदाचित्कचित्साधुभिः सह दर्शनं श्रुतस्तत्समीपे धर्मः परिणतो भावसारं, गृहीता दीक्षा सहैव पुत्रेण पालयत्युद्यतविहारेण गच्छत्सु दिनेषु क्षुल्लकोऽपि प्राप्तो यौवनं कर्त्तुमारब्धो विचित्रविकारान्, याचितुं प्रवृत्तो यतिजनानुचितानेकवस्तूनि, पुत्रस्नेहाच्च यतनया संपादयति तत्पिता, तथाहि - यदा वक्ति-आर्य ! न शक्नोमि प्रथमालिकया विनाऽऽसितुं तदा तामप्यानीय ददात्याचार्यानुज्ञया, यदा ग्रीष्मकाले ब्रवीति-न पारयामि रविकरनिकरप्रतापमधिषोढुं तदा सूरीननुज्ञाप्य कारयत्युपानत्परिभोगं शिरसि च कल्पं, एवं च मन्दपरिणामतया प्रतिदिवसोपचीयमान विविधेच्छानिर्वर्त्तनेनानुवमानोऽपि पित्रा पितृसङ्केशभीत्या धार्यमाणोऽपि साधुभिर्मदनशरधोरणीविध्यमानमानसो निर्लज्जतामवलम्ब्य For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy