________________
श्रीनवपदवृ. हमोगोप
भोग०
॥ २१५ ॥
Jain Education In
रपरिपालितं चारित्रं, यतो भग्नचरणपरिणामाः प्राणिनो ब्राह्मणसुत इव भवन्ति बहुदुःखभाजनं भवदेवेनोक्तं-कोऽयं ब्राह्मणसुतः ?, साऽब्रवीत् श्रूयताम् - इहैव भारते क्षेत्रे लाटदेशालङ्कारभूतमस्ति भृगुकच्छपत्तनं, तत्राजन्म दारिद्रयोपद्रुतः कुरूपताप्राप्त प्रथमरेखो रेवादित्यनामा ब्राह्मणो बभूव, तस्याऽऽपदभिघाना देवब्राह्मणप्रसादप्राप्ता यज्ञपत्नी भट्टिनी, सा चौष्ठवहिर्निर्गतदशना परिपिङ्गतारविषमाक्षी । लम्बोदरवकमुखी वामनका कृष्णवर्णा च ॥ १ ॥ तादृश्यप्यविनीता, कलहकरी वञ्चनैकचित्ता च । नित्योद्वेगविधात्री परिवादपरा भषणशीला ॥ २ ॥ ईदृश्या अपि तस्याः जनिताः पुत्र्यः क्रमेण पञ्चदश । सर्वलघुचैकसुतो रेवादित्येन विप्रेण ॥ ३ ॥ न चैतावतः कुटुम्बस्य निर्वाहमेष ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्य मित्यादिगायत्रीमात्रविद्यो याचनामात्रलब्धार्थेन कर्त्तुं शक्नोति, अतस्तथैव भट्टिन्या सहानीय विक्रीणाति दारुभारकान् वहत्युदकघटानीश्वरगृहेषु करोति कण्डनपीषणकचवरोज्झनाद्यनेकनिन्द्यकर्माणि भ्राम्यति भिक्षाम् इत्थं प्रवर्त्तमानस्यास्थातिचक्राम प्रभूतः कालो, मरणपर्यवसानतया जीवलोकस्य कदाचिदुपरता भट्टिनी, तद्वियोगदहन दह्यमानमानसश्च भूतापहृतहृदय इव सन्निपातविचेतनीकृत इव किंकर्त्तव्यतामूढः स्थितः कानिचिद्दिनानि अन्येद्युचिन्तितमनेन - यस्य धर्मा
"
For Private & Personal Use Only
रेवादित्य दृष्टान्तः
।। २१५
(www.jainelibrary.org