SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ भोगेषु तृष्णा, चेतसि संपद्यते शरीरवताम् । सा दुःखसहस्रकरी संसारविवृद्धिजननीव ॥ २॥ वरमशितं तालपुटं घोरविषैः क्रीडितं वरं सः । वरमुषितं सह रिपुभिः न तु विहिता कामकाम्याऽपि ॥ ३॥ यस्मातालपुटाद्याः जन्मकं नाशयन्ति जीवानाम् । कामेच्छा तु भवान्तरशतेष्वपि प्राणिनं हन्ति ॥ ४॥ एवं विपाककटुतामालोच्य मुने ! त्वयाऽपि विषयाणाम् । तद्वाञ्छाऽपि न कार्या जिनशासनशुद्धबोधेन ॥५॥ इत्थं तयाऽनुशिष्टो । विचिन्तयामास सोऽपि निजचित्ते । पश्य किमेतज्जातं ? न गुरुगृहं नापि पितृभवनम् ॥ ६ ॥ भवत्वेवं, तथाऽपि । तावन्निजजायया च यावज्जीवन्त्या सह करोमि दर्शनमिति विचिन्त्योक्तमनेन-दर्शय तावन्नागिलाम् , अग्रे यत्सा भणिष्यति तत्करिष्यामि, ततस्तयोक्तम्-अहमेव सा, ततोऽसौ मनाग् विलक्षीभूतो लज्जासाध्वसाभ्यां सममेवालपन्तस्तन्मुखावलोकनपूर्वमितस्ततो निरीक्षमाणो मौनमाश्रितो भूयोऽप्याभाषितोऽनया, यथा-किमेवं ग्रीष्ममध्यन्दिन ललाटन्तपतपनमण्डलोपतापितोषरप्रदेशप्रवृत्तमृगतृष्णिकाविप्रलब्ध इव मरुमार्गपथिको गाढोपारूढभोगतृष्णातरलितहृदयः शून्यचक्षःक्षेपं दिक्ष विधत्से १ न खलु विशिष्टधर्माराधनमन्तरण प्राणिनामभिलषितार्थसंसिद्धिः कदाचिदपि जायते, तद्रज गुर्वन्तिकं गृहीतप्रायश्चित्तो भूयोऽपि सज्जीकुरु संयमशरीरं, मैवमेव निरर्थकतां नैषीश्चि Alwww.jainelibrary.org Jain Education in For Private & Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy