________________
हमोगोप
श्रीनवपद ॥ ५१ ॥ एवं विचिन्तयन्नेवापूर्व करणमाश्रितः । आरूढः क्षपकश्रेणिं, लेभे केवलसंविदम् ॥ ५२ ॥ तदेवं भूप ! भावदेववृत्त मोग भवता, यदाऽयं प्रविलोकितः । तदा दुर्मुखदुर्वाक्यप्रकोपवशगोऽभवत् ॥ ५३ ॥ तेनैव सप्तममहीयोग्यध्यानो । . २११॥ मयोदितः । पूर्वमेष इदानीं तु, वैराग्योत्पन्नकेवलः ॥ ५४ ॥ अत एव-गुर्वी चित्तक्रियैवात्र, मनोवाकायकर्मसु ।।
कि यया सप्तमभूप्राप्तिमोक्षलाभोऽथवा भवेत् ॥ ५५ ॥ एवं विज्ञातभावार्थः, पुनः प्राह नराधिपः । सुरासुरौघसंपूज्य, K केवलं भगवन्निदम् ॥ ५६ ॥ एतस्मिन् भरतक्षेत्रे, व्यवच्छेदं क यास्यति ? । समये तत्र चायातो, वन्दनार्थ जग| गुरोः ॥ ५७ ॥ एकः सुरो महातेजाश्चतुर्देवीसमन्वितः । विद्युन्मालीति विख्यातो, दर्शयित्वा जिनस्तकम् ॥ ५८ ॥
अवादीत् केवलस्यात्र, व्यवच्छेदो भविष्यति । उवाच श्रेणिको भूयः, कथं देवस्य केवलम् ? ॥ ५९ ॥ तीर्थनाथोऽवदद्राजन् !. एष सप्तमवासरे। व्युत्वा भविष्यति नरः स च प्राप्स्यति केवलम् ॥६० ॥ नृपतिः प्राह यद्येवं, कथमेतस्य वीक्ष्यते । ईदृग्द्युतियतो देवाश्व्युत्काले क्षीणतेजसः ॥ ६१ ॥ उवाच तीर्थकृत्पूर्वमस्यासीद् या द्युतिः । परा । तस्या असङ्ख्यभागोऽपि, नेदानी नृप ! विद्यते ॥६२॥ जगाद श्रेणिको भूयः, किमेतेनान्यजन्मनि । मुनीन्द्र ! सुकृतं चक्रे, येनास्य द्युतिरीदृशी १ ॥ ६३ ॥ जगद्गुरुणा भणितम-आसीत् इहैव मगधाजनपदे सुग्रामाभिधानग्रामे
Jain Education in
For Private & Personal Use Only
| www.jainelibrary.org