SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पोग्गलपरिमाणं चिंतिऊण भोगेहि जे विरजंति । सिवजम्प्रे जह जंबू, वंदिजंते बहुजणेणं ॥ ७९ ॥ पुद्गलपरिणामं पूरणगलनधर्मकस्कन्धपरिणतिं ' चिन्तयित्वा ' पर्यालोच्य, यथा य एव पुद्गला अत्राशुभ वर्णा विरूपास्ते एव संस्कारवशाच्छुभवर्णादिभाजो जायन्ते यथा खातिकोदकं कुथितकलेवरादिपूतिगन्ध्यति - कलुषस्वभावमपि सुबुद्धिमन्त्रिणा विशिष्टसंस्कारवशान्मनोहारिवर्णगन्धरसस्पर्श सम्पादितं, ये चात्र शोभनरू| पादिमन्तस्तेऽपि पदार्थान्तरसंसर्गवशाद्विरूपगन्धादिमत्त्वमवाप्नुवन्ति, यथा मोदकप्रियकुमारस्य प्रधानभोजनाङ्ग| रागादयः शरीरसंपर्कवशाद्दर्गन्धतादित्वमापन्नाः, इत्यादिरूपं पुद्गलपरिणामं चिन्तयित्वा 'भोगेभ्यः' कामेभ्यो ये ' विरज्यन्ते उद्विजन्ति, लघुकर्माणः पुरुषा इति शेषः, यत्तदोर्नित्याभिसम्बन्धात् ते किमित्याह - ' वन्द्यन्ते | स्तूयन्ते 'बहुजनेन' प्रभूतलोकेनेति तुर्यपादेन सम्बन्धः, को यथा ? - शिवजन्मनि यथा जम्बू: ' शिवाख्यभवे | जम्बूस्वामीव- अपश्चिम केवलीवेति गाथासङ्क्षेपार्थः ॥ व्यासार्थस्तु कथानकगम्यः, तच्चेदम्— जम्बूद्दीपाभिधे द्वीपे, वैताढ्याद्विद्विधाकृतम् । विद्यते भरतक्षेत्रं, शशाङ्कुशकलाकृति ॥ १ ॥ तन्मध्यखण्ड C " " For Private & Personal Use Only ( www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy