________________
स्थित्वा कियतीमपि वेला प्रस्थितः स्वस्थानं, सुबन्धुश्च क्षणमात्रेण विजनमाकलय्य करीषोपरि प्रक्षिप्य धूपाङ्गारं गतः स्वगृहं, क्रमप्रवर्द्धमानेन च कारीषवह्निनाऽऽश्लिष्टदेहश्चाणक्यो मृत्वोत्पेदे देवत्वेन, गतेषु केषुचिदिनेषु विज्ञप्य राजानं सुबन्धुः प्रविवेश चाणिक्यगृहं दृष्टवांश्च तत्र तालितमपवरकं, नूनमेष साररिक्थस्थानमिति विचिन्तयन् यावत् तमुद्घाटयामास तावददर्श तदन्तमञ्जषां. हृष्टचित्तेनोद्घाटिता सा, दृष्टस्तन्मध्ये समुद्कः, तमप्युद्घाटय यावत्पश्यति तावदवलोकयामास सुगन्धीन वासान, दत्त्वा नाशाग्रे किमेतावता यत्नेनामी धृता इति चिन्तयन् सूक्ष्मेक्षिकया यावदीक्षाश्चके तावद् दृष्टिपथमवततारास्य तन्मध्यवर्ति लिखितं भर्यखण्डं वाचितं च-"आघाय य इमान वासान, ब्रह्मचर्यादिसेवया । नासिष्यते व्रतीवाश, स यास्यति यमान्तिकम् ॥ १॥” ततोऽसौ मरणभयभीतो लिखितपरीक्षानिमित्तं पुरुषमेकं तान् गन्धानाघ्राय्य स्नानादिपूर्व स्त्रीसेवां कारयामास, तं च तद्गन्धव्याकुलितचेतनं क्षणमात्रेण परासुतामापन्नं विलोक्य चिन्तितवान्-अहो! दारुणता चाणक्यस्य येन स्वयं म्रियमाणेनोपायतो वयं मारताः, तदनन्तरं च स्वप्राणरिरक्षिषया विधाप्य निजतुण्डमुण्डमुण्डनकं तस्थौ यतिवत्त्यक्त्वा स्नानादि समस्तभोगाङ्गम् ॥ समाप्तं सुबन्धुकथानकं, भट्टिनीसंविधानकं चेदम्
Jan Education Inter
For Private Personel Use Only
A
jainelibrary.org