________________
श्रीनवपदबू हभोगोपभोग०
सुबन्धुकथागक
॥२०७॥
ऽऽर्य चाणक्येन सदैव विषमिश्रभोजनेन धृतो भवति च गर्भगते त्वन्मातुः कदाचित्त्वरिपत्रैव सह भोक्तमपविष्टायाः स्वभोजनमध्याचाणक्यमनापृच्छयैव त्वत्पित्रा कवलो दत्तः, तन्माहात्म्याच्च भुञ्जानैव विषवेगपूर्णिता दृष्टा चाणक्येन, भणितं च-आः! वृषल किमिदमनुष्ठितं ?, न केवलमियं व्यापादिता, गर्भोऽपि विनाशितोऽस्याः, तदिदानीमेवं कालोचितं दस्या विनाशेनापि गर्भरक्षणमित्युक्त्वा क्षुरिकया विपाद्य तदुदरमाचकर्ष भवन्तं, तवापि च तालुदेशे मक्षिकाप. इमात्रेण विषरसेन विश्रान्तेन शीर्षे बिंदुर्जनितः, अत एव बिन्दुसार इति नाम जातं, ततोऽसौ तद्वचनोपजातपश्चात्तापो हा! न सुन्दरमाचरितं परमोपकारिणि मयाऽऽर्यचाणक्ये, तदिदानीमपि सन्मान्य समानयाम्येनमित्यभिदधदेव || गतश्चाणक्यसमीपं राजा बभाषे च सस्नेहं. न च प्रत्युत्तरमदाचाणक्यः ततोऽत्रान्तरे विदितधात्रीवृत्तान्तेन मायाप्रधानेन सुबन्धुनाऽवाचि-देव ! महात्मैष आर्यचाणक्यः प्रतिपन्नानशन इङ्गिनीमरणमङ्गीकृत्य स्थित आस्ते, नेदानी प्रत्युत्तरं गृहगमनं वा करिष्यति, वयमेवात्र धिक्कारहता ये एवंविधमहापुरुषाणां पौर्वापर्यमपर्यालोच्यैव श्रुतमात्रग्राहितया कलङ्कितामारोपयामः, सर्वथा सर्वावस्थासु पूज्या एव महात्मान इति कालोचितसपर्यया पर्युपास्महे, किमनेन महाराज ! महेलाजनोचितेन परिदेवनेनास्माकमित्यभिधाय पुष्पधूपादिव्यग्रहस्तः पूजां कर्तुमारेभे, नरेन्द्रश्च
॥२०७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org