SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ षणपरो भूयोऽपि कथञ्चिल्लब्धप्रसरोऽन्यदा रहसि बिन्दुसारनरपति व्यजिज्ञपद्, यथा-देव! वयं भवदीयराज्ये । यद्यप्यवगीता एव तथाऽपि यदत्यन्तविरुद्धं तन्न शक्नुमः सोढुमित्यतोऽभिदध्महे-तव मातुश्चाणक्येन यद् अत्य. । न्तनिघृणं कर्मानुष्ठितं तत्कथयितुमपि न शक्यते, राज्ञाऽभाणि-किं तत् ?, सुबन्धुरभिदधौ-उदरविदारणं, ततस्तद्वचनमतिकर्कशमश्रद्दधानेन राज्ञा पृष्टा स्वधात्री, तया चाज्ञातभावार्थया पौर्वापर्यमविचार्य एवमेतदिति समर्थित । सुबन्धुवचनं ततो रुष्टो राजा चाणक्यस्यावसरसमयसमेतस्य न निरीक्षितं संमुखम्. अपमानेन विज्ञातनपति-|| भावो गत्वा गृहं चाणिक्यः परिभावितवांश्चेतसि-ननं सबन्धुविलसितमिदं तदिदानीमपि तथा करोमि यथाऽनुभवति स्वदौर्जन्यफलमसाविति विभाव्य विरचय्य मध्येऽपवरकं मञ्जूषां व्यवस्थाप्य तदन्तः समुद्गक आपूर्य सांयोगिकवासैः । तन्मध्ये च प्रक्षिप्य लिखितं भूर्यखण्डं धर्मस्थानेषु च विनियोज्य स्वधनमात्मना गोकरीषमध्ये प्रतिपद्यानशनमिङ्गिनीमरपणेन तस्थौ, द्वितीयदिने चोपलब्धतदीयानशनकरणादिवृत्तान्तया समागत्य धात्र्योपालब्धो राजा, यथा किमिदमाचेष्टितं पितामहतुल्ये महामन्त्रिणि चाणक्ये भवता ?, नृपेण प्रत्यपादि-मदीयमातुरुदरविदारकस्य मातः! मा ग्रही मापि तस्य, तयोचे-मैवं बोचः,त्वद्रक्षार्थमेवार्येणैतदाचेष्टितं, यतस्तव पिता चन्द्रगुप्तो बहुशत्रुः मा विषादिभिर्विनाशं प्रापदितिबुद्ध्या in Edutan I For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy