SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ केवलं-भविताऽसि त्वमन्यस्यामहत्पनौ जिनोत्तमः । महापद्माभिधो राजन् !, माऽतस्त्वमधृति कृथाः॥ २२ ॥ तच्छ्रुत्वा प्रमदोत्कर्षप्रफुल्लनयनाम्बुजः । प्रणम्य श्रेणिको भपः, प्रोवाचेदं विचक्षणः ॥ २३ ॥ किं कश्चिदस्त्यु-| पायोऽत्र, स्वामिन् ! येन न गम्यते । नरकेऽस्माभिरत्यन्तं, भीषणाकारधारिणे ॥ २४ ॥ भगवान् प्राह भो भूप !, कपिलां ब्राह्मणी यदि । भिक्षां दापयसि प्रीत्या. तपस्विभ्यः कथञ्चन ॥ २५ ॥ कालसौकरिकं चापि, शूनां त्याजयितुं यदि । ईशिषे स्यात्ततो मोक्षस्तेऽन्यथा नेति चिन्त्यताम् ॥ २६ ॥ इत्यस्तसंशयो राजा प्रणम्य परमेश्वरम् । स्थिरधीः शासने जैने, चचाल स्वगृहं प्रति ॥ २७ ॥ प्रस्तावेऽत्र स गीर्वाणो, दर्दुराङ्कः परीक्षितुम् । सम्यक्त्वविभ्रमं राज्ञः, पुरतः कृतवानिमम् ॥ २८ ॥ एकत्र दर्शितः साधुरकार्य विदधत् पुरः । तथा यथा मनोऽन्यस्य, दृष्ट्वा । धर्मात् पृथग्भवेत् ॥ २९ ॥ भूपस्तु निश्चलो धर्म, भावयन् कर्मचित्रताम् । निवार्य प्रत्युत प्रीत्या, तमलक्ष्यं ययौ । पुरम् ॥ ३० ॥ भूयोऽपि गर्भिणी साध्वी, दर्शिता तेन तामपि । सङ्गोप्य शासनस्योच्चैररक्षल्लाघवान्तरम् ॥ ३१ ॥ एवं यदा न राजेन्द्रः कथञ्चिदपि चाल्यते । प्रत्यक्षीभूय देवेन, तदैवं किल भाषितम् ॥ ३२ ॥ भो भोः ।। श्रेणिक ! यादृक्षस्त्वमिन्द्रेण परीक्षितः। तादृक्ष एव जैनेन्द्रशासनेऽसि सुनिश्चलः ॥ ३३ ॥ तद्गृहाण विभो ! हारं, Jain Education initialonal For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy