SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ रसिकासेकमाधत्ते, पापोऽसौ स्वामिपादयोः॥ ९७ ॥ ततोऽसो चिन्तयामास, रोषापूरितमानसः । पापोऽयं पश्य कीहक्षमकार्य कुरुतेतराम् ? ॥ ९८ ॥ यः पूज्यः सर्वदेवानां, नरेन्द्राणां च भक्तितः । तं त्रिलोकपतिं पापः, पूयेन । परिषिञ्चति ॥ ९९ ॥ निहन्म्येनमतो दुष्टं, स्वाम्यवज्ञाविधायकम् । न युक्तमथवा कर्तुमिदं भगवदन्तिके ॥१०॥ यतः शाम्यन्ति सर्वाणि भगवत्यागते किल । पूर्वोत्पन्नानि वैराणि, न भवन्ति पराणि तु ॥ १.१॥ अतस्तावदितः स्थानादुत्तिष्ठत्वेष कुष्ठिकः । येनास्य दर्शयाम्यद्य, फलं दुर्विनयस्य हि ॥ २॥ श्रीमहीरजिनेन्द्रेण, प्रस्तावेऽत्र क्षुतं कृतम् । तच्छ्रुत्वा कुष्ठिना तेन, म्रियस्वेत्युदितं वचः ॥ ३ ॥ श्रेणिकेन क्षुते प्रोक्तं, सुचिरं जीव भूपते ! । अभयेन । क्षुते तूक्तं, जीव वा त्वं म्रियस्व वा ॥ ४ ॥ कालसौकरिकेणाथ, क्षुतेऽवाचि वचस्विना । मा जीव मा म्रियस्वेति, कालसौकरिकाधुना ॥ ५॥ स्वामिसंमुखमाकर्ण्य, म्रियस्वेति वचो नृपः । तस्मै चुकोप बलवदन्तदृष्टोष्ठपल्लवः ॥ ६ ॥ सज्ञिताश्वाक्षिसङ्कोचा(ङ्कता)त्, स्वपुमांसो महीभुजा । गृहीतैनमतः स्थानादुत्थितं हन्त कुष्ठिनम् ॥७॥अथो कथाऽवसानेऽसौ, कुष्ठी नत्वा मुनीश्वरम् । प्रतस्थे पृष्ठतो लग्नाः, पुमांसस्तेऽपि धर्षितुम् ॥ ८॥ तान् दृष्ट्वा पृष्ठतो लग्नान, जिघृक्षन् पुरुषानसौ । उत्पपात नभः कुष्ठी, दिव्यरूपं विधाय सः॥९॥ तैर्विलक्षैः समागत्य, श्रेणिकाय निवे Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy