________________
Jain Education
प्रोवाच मदवज्ञाया, भवद्भिद्यतां फलम् ॥ ७१ ॥ ते ऊचुस्तात ! किं न्वेतत्त्वयाऽस्मान् प्रत्यनुष्ठितम् ? | स प्राह मां विना कस्य शक्तिः स्यादीदृशी भुवि ? ॥ ७२ ॥ आः पाप ! किं त्वयेदृक्षं, विरुद्धं धर्मलोकयोः निस्त्रिंशेन समाचीर्णमित्यूचुस्ते पुनः सुताः ॥ ७३ ॥ स प्राह यत्तु युष्माभिर्जन के मय्यनुष्ठितम् । तत्किं सयुक्तिकं ? | को वा, स्वदोषानीक्षते जनः १ ॥७४॥ महतोऽपि स्वदोषान् नो, परदोषांस्त्वणनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य | दृश्यते ॥ ७५ ॥ तमेवं तैः समं विप्रं रटन्तं वीक्ष्य सन्ततम् । अपरोऽपि जनोऽजस्रं, प्रारेभे तत्र निन्दितुम् ॥ ७६ ॥ ततोऽपवादभीतोऽसौ पुरं राजगृहं गतः । जीविकार्थं निरालम्बो, द्वारपालमशिश्रियत् ॥ ७७ ॥ उत्पन्न केवलज्ञानः, पूज्यमानः सुरासुरैः । अत्रान्तरे जिनो वीरः, तत्र समाययैौ ॥ ७८ ॥ ततो दौवारिकेणासावुक्तो भद्राहमीक्षितुम् । भगवन्तं वजिष्यामि त्वया त्वत्रोपविश्यताम् ॥ ७९ ॥ न चेतः कापि गन्तव्यं, तावद्यावत्समागतः । नाहमत्रेति संभाष्य, ययौ तेन जिनान्तिकम् ॥ ८० ॥ एवमस्त्विति तेनापि प्रतिपद्य द्विजन्मना । द्वारदुर्गानिवेद्यानि भुञ्जानेनासितं चि (च) रम् ॥ ८१ ॥ ततो लाम्पट्यतस्तस्माद्बहुशो बलिभोजनात । पिपासाऽभूद् भृशं ग्रीष्मकालत्वाच्चातिबाधिका ॥ ८२ ॥ दौवारिकभयाच्चान्यं, मुक्त्वा पानाय नागमत् । ध्यात -
For Private & Personal Use Only
www.jainelibrary.org