SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्री नवपद. हमोगोपभोग० # POP! Jain Education Inter I ततश्च - एवमस्त्विति भूभर्त्रा प्रतिपन्ने स मन्त्रिभिः । प्रोक्तोऽद्यप्रभृति पुत्रैर्भोक्तव्यं राजमन्दिरे ॥ ३४ ॥ ततस्तेन | स्वपुत्राणामनुजज्ञे तदाज्ञया । स्वनियोगः स्वयं गेहे संतस्थे दुर्मना मनाक् ॥ ३५ ॥ कालेनोत्कटतां याते, तत्र व्याधौ न्हिया सुतैः । तैस्तस्य कारयाञ्चक्रे, बहिर्गेहात् कुटीरकम् ॥ ३६ ॥ ततो वधूजनोऽप्येतं दृष्ट्वा निष्ठीवति | क्षणात् । नाज्ञां च कुरुते कल्पितोऽपि मुहुर्मुहुः || ३७ || भोजनाद्यपि दूरस्थैश्चण्डालस्येव नीरसम् । क्षिप्यते कर्परे तस्यावृतघ्राणैर्जुगुप्सया ॥ ३८ ॥ तद् दृष्ट्वा चिन्तितं तेन मत्प्रभावाद्य ईदृशीम् । आरूढाः पदवीं पश्य, | तेषां कीदृग्विचेष्टितम् ? ॥ ३९ ॥ अथवा-यासामेव पिबन्त्यम्बु, नदीनां वृषभास्तृषा । तासामेत्र तटीनन्ति कृतघ्नाः | शृङ्ग कोटिभिः ॥ ४० ॥ यस्य पत्रपुढे भुक्त्वा, छायायां शेरते मुहुः । मूलं खनन्ति तस्यैव, पलाशस्य पुलिन्द्रकाः ॥ ४१ ॥ यत्प्रभावादवाप्ता श्री, कुमुदैर्मुदितैरिव । सैवोपहस्यते चान्द्री, चन्द्रिका स्वरुचा निशि ॥ ४२ ॥ एवमे | तेऽपि पापिष्टाः, मच्छ्रिया वृद्धिमागताः । मामेवाभिभवन्त्येवं धिक् पुत्रान् दुर्जनानिव ॥ ४३ ॥ अतोऽवज्ञाफलं तूर्णं, मून्येषां पातयाम्यहम् । इति क्रोधात् समालोच्य प्रोक्ताः पुत्रा द्विजन्मना ॥ ४४ ॥ भो भो पुत्राः ! वयं बाढ मुद्दिनाः प्राणितव्यतः । कृत्वाऽतः स्वकुलाचारं, वाञ्छामो मर्त्तुमञ्जसा ॥ ४५ ॥ तच्छ्रुत्वाऽतो झटित्येष, म्रियते चारु 1 For Private & Personal Use Only सेडुबकद्वि ज दृष्टान्तः ॥ २०२ ॥ ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy