________________
ग्रासने राज्ञो, भट्ट ! याचस्व भोजनम् ! दीनारदक्षिणां चैव, तथैकान्तं दिने दिने ॥ २१ ॥ गत्वाऽथ प्रार्थितस्तेन, तथैव नृपतिर्मुदा । ऋजुतां तस्य विज्ञाय, राज्ञाऽपि प्रत्यपद्यत ॥ २२ ॥ ततः प्रभृति तत्सर्वे, कुर्वाणं वीक्ष्य भूभुजम् ।चिन्तयामासुरन्येऽपि, भपतेः पार्श्ववर्तिनः॥ २३ ॥ महाप्रसादमतस्य, कुरुते प्रत्यहं नपः। यतोऽतो वयमप्येनं,
पूजयामः प्रयत्नतः ॥ २४ ॥ इति संचिन्त्य तैः सर्वैः, स प्रीत्या भोज्यते द्विजः । स्वगृहे ग्राह्यते नित्यं, दक्षिणा ४च प्रयत्नतः ॥ २५ ॥ ततोऽसौ तादृशाल्लाभादचिरेण महर्द्धिकः । समभूत्पुत्रपौत्रादिसन्तत्या प्रससार च ॥ २६ ॥ ral केवलं दक्षिणालोभाहुञ्जानस्य गृहे गृहे । वमनं कुर्वतश्चास्य, त्वग्दोषोऽभूद्भयानकः ॥ २७ ॥ शीर्णघ्राणो व्रणाघातः, ।
प्रस्रवत्पूयगन्धतः। मक्षिकावेष्टितः कष्टामवस्था प्राप्तवांस्ततः ॥ २८ ॥ तथाऽपि पूर्ववद्राज्ञो. बुभुजेऽग्रासने स्थितः । कुष्ठी वऽहमित्येवं, शशङ्केन मनागपि ॥२९॥ उपेक्षितश्च स व्याधिः, क्रमेण ववृधेऽधिकम् । संपर्को दुर्जनस्येव, तस्य पीडाविधायकः ॥३०॥ दृष्ट्वा तं तादृशं राजा, विज्ञप्तो मन्त्रिभिर्भयात् । देव ! व्याधिरयं बाढं. संचरिष्णरियं
श्रुतिः॥ ३१॥ यतः-एकत्र भोजनास्पर्शादेकशय्याऽऽसनादितः । सङ्क्रान्तिर्जायते व्याधेरिति शास्त्रऽपि भाष्यते W॥ ३२ ॥ अतो निवार्यतामेष, भुञ्जानोऽग्रासने द्विजः। तत्स्थानेऽस्य सुताः सन्तः, स्थाप्यन्तां नीरुजस्त्वया ॥३३॥
1
Jan Education inted
For Private Personal Use Only
IFrow.jainelibrary.org