________________
‘भोगोपभोगेभ्यः । सकृद्रोग्यपुनःपुनर्नोग्याहारवस्त्रादिरूपेभ्यः ‘अनिवृत्तानां ' अनुपरतानां 'तुः' पूरणेऽवधारणे वा ‘भवन्ति ' जायन्ते 'दुःखानि । शारीरमानसासातोदयरूपाणि, अत्रार्थे दृष्टान्तत्रयमाह- ' सेडुबकश्च सुबन्धुर्यथा नित्यमण्डिता भट्टी' यथा सेटुबकब्राह्मणः सुबन्धुर्मन्त्री नित्यमण्डिता भट्टिनी चेति गाथासमासार्थः ॥ व्यासार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि। प्रधाननगरग्रामगोकुलादिसमाकुलः । वत्सो जनपदः ख्यातोऽस्त्यनेकश्रीनिकेतनम् ॥ १॥ लसत्पुण्यजनाकीर्णा, तत्रैलविलपूरिव । कौशाम्बी नाम्ना नगरी, गरीयःसम्पदः पदम् ॥ २ ॥ नम [ग्रन्थानम् ५५०० । त्सामन्तसङ्घातमौलिमालार्चितक्रमः । शतानीको नृपस्तत्र, प्रतापाक्रान्तवैरिकः ॥ ३ ॥ तस्यामेव महापुर्यामासी-13 सेडुबको द्विजः । ज्ञानविज्ञानविकलो, दारिद्योपद्रवोद्गतः ॥ ४ ॥ अन्यदा स्वगृहिण्याऽसौ, गर्भिण्या भणितो यथा । प्रयोजनं घृतेनेह, भविताऽतस्तदानय ॥ ५॥ तेनावाचि न मे किञ्चित्तादृशं विद्यते प्रिये ! । विज्ञानं ५ यादृशेनाहमानयामि घृतादिकम् ॥ ६ ॥ भट्टिन्योक्तं महीनाथं, गत्वाऽवलग सन्ततम् । पुष्पव्यग्रकरो येन, वृत्ति || काञ्चित् करोत्यसौ॥७॥ यतः- इक्षक्षेत्रं समुद्रश्च, योनिपोषणमेव च । प्रसादो भूभुजां चैव, सद्यो नन्ति दरि
Jain Educational cosa
For Private & Personel Use Only
www.jainelibrary.org