SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कदाग्रहस्तस्माच्च मिथ्यात्वं जायत इति द्वितीयः कारणप्रकारः, 'संसग्गीय' त्ति मिथ्यादृष्टिभिः सह यः सम्बन्धःd स संसर्गोऽत्र विवक्षितस्तस्माच्चेति तृतीयः कारणविकल्पः, अयं च दोषहेतुत्वेन सुप्रतीत एव, यदुक्तम्AMI "अंबस्स य निंबस्स य दुव्हंपि समागयाइं मूलाई । संसग्गाएँ विणट्ठो अंबो निबत्तणं पत्तो॥१॥ तथा-"तिलाश्चम्पक सम्पर्कात्प्राप्नुवन्त्यधिवासनम् । रसोनभक्षस्तद्गन्धः, सर्वे साङ्कमिका गुणा ॥२॥” इति, 'अभिनिवेसेणं ति अभिनिवेशो | नामाहम्पुरुषिकयाऽन्यथाभूतस्यापि सतो वस्तुनोऽन्यथा प्ररूपणं तेनेति चतुर्थो हेतुभेदः, 'चउह 'त्ति चतुर्भिः प्रकारैः । खलुशब्दो वाक्यालङ्कारे नतु अवधारणार्थस्तेनोक्तं-'साहूण अदंसणेणऽहवा' साधवो-यतयस्तेषामदर्शनम्-अनवलोकनम् , अथवाशब्दः समुच्चयार्थस्तेन साधूनामदर्शनेन चेत्यर्थः, एतच्चाऽऽबालगोपालाङ्गनाजनप्रसिद्धमेव प्रेमदृष्टान्तेन, यथा प्रेमात्यन्तवृद्धिमुपगतमपि कालवशेन भादावभीष्टे देशान्तरादिगते निधनमुपयाति, यथोक्तम्-“अईसणेण| सुन्दरि! सुहुवि नेहाण बन्धुजणियाइं । हत्थयलपाणियाइव कालेण गलंति पेम्माई॥" ति, तथा कदाचित्सम्यक्त्वलाभेऽपि सर्वथा साध्वदर्शनेन मिथ्यात्वमुपजायते. अत एव श्रावकाणामेवं सामाचारी भणिता यथा-"निवसेज तत्थ । सड्ढो, साहूणं जत्थ होइ संपाओ। चेइयघराइ जहियं तयण्णसाहम्मिया चेव ॥१॥"त्ति, अन्यथा साधुसाधर्मिकचै Join Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy