SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ माणे. .१९१॥ कामालोचयेति स्मरयामास, सोऽप्यहं मध्येसाधूपहसितोऽनेन तद्दर्शयाम्यमुष्य दुर्विनयफलमिति संक्रुद्धमानसःचण्डकोश्रीनवपक्वृ. दिकपरि समादाय खोपवेशनपीठं प्रधावितो यावत्तस्योपरि तावदन्तराल एवापतितः स्तम्भे मृतो मर्माघातेनोदपादि विराधि. शिक कथा. तश्रामण्यो ज्योतिष्केषु, स्वायुःक्षये ततश्च्युतोऽत्रैव भरतक्षेत्रे कनकखलाभिधानतापसाश्रमे पञ्चशतसङ्ख्यतापसा धिपतिभायास्तापस्या उदरे उत्पेदे, जातश्चोचितसमये, गतो वृद्धि कालक्रमेण, स्वभावतश्चण्डः कौशिककुलश्चेति प्रचण्डकौशिकनामा लोके प्रसिद्धिमगमत्, अन्यदा च परलोकान्तरिते पितरि स एव कुलपतिः संवृत्तो, वनखण्डमूNर्छया न ददाति तापसवर्गस्य फलपुष्पकन्दाद्यादातुं, ततो गतोऽन्यवनमसौ, अपरेधुश्च नातिदूरे श्वेतव्या नगर्या । राजकुमारकाचण्डकौशिकस्य प्रयोजनान्तरेणाटवीं गतस्य समागत्याश्रम भङक्त्वा वनखण्डं बीजपूरकादिफलानि गृहीतवन्तः, ततो गोपालदारकैः कथिते चण्डकोशिकोऽतिरोषपूरितः परशुहस्तः प्रधावितस्तद्वधाय, सर्वेऽपि प्रपलायिता दिशोदिशम, एषोऽपि वेगेनागच्छन् प्रस्खलितः कथञ्चित् पपात भूमौ तेनैव कुठारेण विदारितमस्तको जगाम यममदिरं, जज्ञे तत्रैव दृष्टिविषसपत्वेन, तापसा अपि तं मृतमाकर्ण्य भूयोऽपि समाजग्मुस्तमेवाश्रम, सर्पस्तु कतिपयदिनैरुपरूढप्रौढविषशक्तिः पूर्वाभ्यासेन तत्रैव वने गाढं मोहमुपगतः परिभ्रमन् सर्वतो यत् किमपि चटककपोतादि पश्यति । ॥१९१॥ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy