SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Jain Education Int ॐ | तद्विषापूर्णलोचनाभ्यामवलोक्य भस्मसात्करोति, ततस्ते तापसाः केचित्तेन दग्धाः केचिद्वनं दृष्ट्रा (च नंष्ट्रा) गताः, इत्थं चासौ द्वादशयोजनप्रमाणं क्षेत्रमुद्वास्य प्रतिदिनमुभयसन्ध्यं पर्यट्य उटजमण्डपिकाबिले तिष्ठन् सुखमास्ते स्म, इतश्चभगवान् महावीरश्छद्मस्थकाले प्रथमं वर्षाकालं शूलपाणियक्षायतने विधाय लोकेन निवार्यमाणोऽपि तमाश्रममुपेत्य समीपे तदीयमण्डपिकायाः कायोत्सर्गेण तस्थौ, तद्गन्धेन निर्गतो बिलादहिः, दृष्ट्वा भगवन्तं मदीयमण्डपिकाऽभ्यर्णवत्त्यैष कश्चिन्निर्भयस्तिष्ठतीति चिन्तयन्नत्यन्तं क्रुद्धस्तद्दिधक्षया विलोक्य सूर्य यथा २ निभा लयामास भगवत्संमुखं तथा निर्विषीभूते विलोचने, ततो दंष्ट्राभिर्दष्टा विषवेगविघूर्णितो मा ममैवोपरि पतिष्यतीति बुद्धया दूरमपसृत्य यावदीक्षाञ्चक्रे तावदंशस्थाने गोक्षीरधवलमाकलय्य रुधिरपूरमाकर्ण्य च भगवदुक्तम् 'उपशाम्य भो चण्डकौशिक ! उपशाम्येति वचनमीहापोहामार्गेणतः समुद्भूतजातिस्मरणः क्षपकभवाद्यनुभूत कोपफलं परिभाव्य भगवत्समीपे विरचितानशनप्रतिपत्तिर्बिलप्रक्षितवदनः सकलसत्त्वक्षामणाध्यवसायी विहितकषायजयोऽईमासं तस्थौ, भगवानपि मा कश्चिदेनमुपद्रोष्यतीतिबुद्धया तत्रैव तथैवासाञ्चक्रे, लोकोऽपि स्वामिन: सुखदुःखवार्त्तानिरूपणार्थ वृक्षाद्यन्तरितो यावत्तथैव तच्चेष्टामैक्षिष्ट तावदेत्रमक्रुत चेतसि - नूनमेष लोचनविषो दंद For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy