________________
संवृत्त इति साध्याहारं योऽयं, ' तथा ' तेन प्रकारेण ‘अन्योऽपि ' अपरोऽपि — सपुण्यः । पुण्योदयवान् — सर्व
सुखानां समस्तसौख्यानामिह-जगति आभागी--भागी भाजनं भवति, गृहीतदिक्परिमाणः श्रावक इति गम्यते, IN इति गाथाक्षरार्थः, समुदायार्थस्त्वेवं-यथा चण्डकौशिको निरुद्धदृष्टिमनोवचःकायो यहा निरुद्धदृष्टिर्मनोवचःकायैः
सर्वसुखानां भागीभृतस्तथाऽन्योऽपि सपुण्य इति गाथासक्षेपार्थः, विस्तरार्थस्तु कथानकज्ञेयस्तच्चेदम्। एकस्मिन् गच्छे क्षपको वर्षाकाले मासोपवासपारणकदिवसे क्षुल्लकेन सह भिक्षाचर्यायां प्रविष्टः कथञ्चिद । नुपयोगतो मण्डूकिका पादेनाक्रान्तमात्रां प्राणेभ्यः पृथक्कृतवान्, ततः क्षुल्लकेनोदितः-क्षपकर्षे ! त्वया मण्डूकिका व्यापादिता, क्षपक इतस्ततस्तत्स्थानवर्तिनीरन्या अपि मतमण्डूकिकास्तस्योपदी रेरे दुष्टशैक्ष ! किमेता अपि मया व्यापादिताः ? इति जजल्प, क्षुल्लकस्तु क्षुत्क्षाम एषः नायं समयोऽस्य प्रतिप्रेरणायां, प्रस्तावान्तरे स्मरयिष्यामीति विचिन्त्य तदा मौनमेवशिश्रियद, इतरस्तु भिक्षामादाय स्खोपाश्रये गुर्वालोचनादिपूर्व भोजनादिव्यापारावसाने सायंतनावश्यकवेलायां यावदालोच्योपवेष्टुमारेभे तावत् काल एष स्मरणाया इति विचिन्त्य क्षुल्लक:-क्षपक ! मण्डूकि
Jain Educationa
l
For Private & Personal Use Only
Irww.jainelibrary.org