________________
श्रीनवपद.
दिपरि
माणे.
॥ १९० ॥
Jain Education Intern
सर्वेऽप्यतिक्रान्ताः, ततः कोणिकोऽभणत्-अहं त्रयोदशश्चक्री, किरिमालिकः प्राह - भो ! भो ! मा विनाशभाग भूः, गच्छ स्वस्थानं, किमनेनाशक्यानुष्ठानेन भवतः प्रयोजनं ?, ततोऽसौ निवार्यमाणोऽप्येवं किरमालकेन यावद्भूयो भूयः स्वाग्रहं न मुमोच तावत्कुपितेनानेनाहत्य चपेटया कपोलदेशे नीतः पञ्चत्वं गतः षष्ठपृथ्वीं तमःप्रभाख्यां, एवं चाकृतदिकपरिमाणानां विज्ञायेहलोक एवं दोषं तत्परिमाणकरण एव बुधैर्यत्नो विधेय इति गाथाभावार्थः ॥ गुणद्वारस्येदानीमवसरोऽतस्तन्निगद्यते
जह चंडकोसिओ खलु निरुद्धदिठ्ठीमणोवईकाओ । तह अन्नोऽवि सन्नो सबसुहाणं इहाभागी ॥ ७० ॥
यथा येन प्रकारेण ' चण्डकौशिकः चण्डकोशिकाभिधानतापसजीवसर्पः ' खलु' निश्चये वाक्यालङ्कारे वा निरुद्धा निवारिता दृष्टिमनोवचः कायाः - नयनमानसवचनदेहा अवलोकनचिन्तनभणनहिण्डनानि प्रतीत्य येन स निरुद्धदृष्टिमनोवचः कायः अत्र च प्राकृतलक्षणेन 'दिठ्ठी' ति दीर्घत्वं यद्वा 'निरुद्धदिट्ठी - त्येतदेव विशेषणपदं, मनोवचः काय इति च प्राकृतत्वेन विभक्तिवचनव्यत्ययाभ्यां मनोवचः कायैः सुखभाक्
For Private & Personal Use Only
गुणद्वारं.
गा. ७०
॥ १९० ॥
jainelibrary.org