________________
Jain Education Int
धर्म फलमुपवर्णयता देवादिवर्णनं कृतं, तत्र चक्रिणोऽपि धर्ममाहात्म्येन भवन्तीति कथितं, ते चानिवृत्तकामभोगा एव यदि म्रियन्ते तदा कोत्पद्यन्ते ?, भगवानुवाच - सप्तमनरक पृथिव्यां कोणिको जगाद - अहं क यास्यामि ?, परमेश्वरोऽब्रवीत्-त्वं षष्ठपृथिव्यां राजा बभाण - किमिति ?, तीर्थकरो बभाषे त्वं चक्रवर्त्ती न भवसि नृपतिनाऽभ्य. धायि - ननु कोsis नियमः ?, किं चक्रवर्त्तिन एव सप्तमपृथिव्यामुत्पद्यन्ते अथवा चक्रवर्त्तिनः सप्तमपृथिव्यामेव | जायन्ते ? यद्वा चक्रिणस्तस्यां भवन्त्येव ?, तीर्थाधिपतिरुवाच - अमुक्तकामा अमी सप्तमीमेव गच्छन्ति, मुक्तकामास्तु देवलोकं मोक्षं चेति नियमः, पृथ्वीपतिरवोचत् अहं कथं न चक्री ?, स्वाम्यभिदधौ य एवोत्पन्नचतुदशमहारत्नः पूर्वादिदिग्विजयक्रमेण प्रसाधितषट्खण्डभरतक्षेत्रः स एव चक्री, त्वं तु न तथा, ततस्तत्प्रभृत्येव स्वकल्पनया कृत्रिमरत्नान्युत्पाद्य कथञ्चिद्वैताढ्यादर्वाग्वर्त्ति खण्डत्रयं वशीकृत्य परभागवर्त्ति - खण्डत्रितयविजयाय तिमिसगुहामयासीत्, तस्यां च किरिमालकं गुहापालकमादिदेश - यथा भो ! भो ! किरिमा - लक ! अहमशोकचन्द्रनामा चक्रवर्त्ती वैताढ्यपरभागवर्त्तिखण्डत्रयजिगीषया तिमिसगुहामुद्घाटयामि तदुद्घाटयेमामिति आदिष्टोऽसावभाणीत् - भो ! भो ! अस्यामवसर्पिण्यां द्वादश चक्रिणो भरताद्या ब्रह्मदत्तपर्यन्ताः, ते च
For Private & Personal Use Only
www.jainelibrary.org