________________
माणे.
श्रीनवपदवृ. कराजस्य देवलोकगमने सर्वत्राप्रतिस्खलिताज्ञैश्वर्यो महाराजो भूत्वा भूयश्चम्पानगर्यामाजगाम, तथा सविस्तरं सप्रसङ्गं च । कोणिक दिकपरि
मूलावश्यकटीकादितोऽवसेयं, इह तु प्रस्तुतगाथार्थघटनाय किञ्चिदेव कथ्यते, तस्य महामहीपतेरसाधारणपराक्र-| कथानक माक्रान्तसमस्तसामन्तचक्रस्य चक्रस्वस्तिकादिसल्लक्षणझूणपाणिपादाद्यवयवस्य प्राग्भवोपात्तप्रधानपुण्योदयसम्पाद्यमानासमानसकलराज्याङ्गस्य समं पद्मावतीप्रमुखान्तःपुरेण जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिचक्रमुः । कियन्तोऽपि वत्सराः, अन्येाश्च द्युसदःशतसहस्रकोटिसंततोपसेव्यमानपादपङ्कजः पादपङ्कजसंस्पर्शपवित्रितसकलेलातलः सकलेलातलप्रतीतबालकालप्रभृतिमेरुपृष्ठकम्पाद्यनेकाकारचारुचरितः चारुचरितवर्णनासमयशक्रसमुदाहृतयदी-| यसच्चाधिकत्वगुणश्रवणसमुत्पन्नरोषातिरेकसङ्गन्मकविरचितविचित्रषाण्मासिकोपसर्गवर्गाप्रतिहतप्रवृद्धनिरर्गलशुभध्यानानलनिर्दग्धकर्मेन्धनः तस्यामेव चम्पापुर्या श्रीमन्महावीरतीर्थकरः समवसृतः, उद्यानपालकादिविदिततदागमनवृत्तान्तः कोणिको निश्चक्राम महाविभृत्या वन्दनाथै, प्राप्तः समवसरणदेशं, परित्यक्तच्छत्रचामरादिराज्यालङ्कारः प्रदक्षिणात्रयविधानपूर्व भक्तिभरावनम्रमस्तको विधिवदभिवन्द्य भगवत्पादारविन्दद्वन्द्वं उचितभप्रदेशे समुपविवेश, प्रारब्धायां च भगवता धर्मदेशनायामपदर्शिते धर्माधर्मफलविभागे प्रस्तावोचितं पप्रच्छ कोणिक:-भगवन् ! यत्वया ।
PIN
Jan Education in
For Private
Personal use only