SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ दिशि-दिशाविषये परिमाणं-परिमितत्वं 'न कुर्वन्ति, नो विदधति 'कथमपि' केनापि प्रकारेण, कीदृशाः सन्तः ? इत्याह- मोहेन ' अज्ञानेन ' मोहिताः । मृढीकृताः, पुनः कथम्भताः ? - पापाः ' गुरुकर्माणः ।। N'तिमिसगुहायां : तिमिसाभिधानवैताठ्यकन्दरायां यथा कोणिकः, अशोकचन्द्र इवेत्यर्थः 'हः, अवधारणे स चाग्रे योक्ष्यते. 'निधनं' विनाशं 'नराः ' पुरुषाः 'यान्त्येव' व्रजन्त्येवेत्यक्षरार्थः ॥ समुदायार्थयोजना तु यत्तच्छेषेणेत्थं कार्या-ये नरा मोहमोहिताः पापाः दिक्परिमाणं न कुर्वन्ति ते तिमिसगुहायां कोणिकवन्निधनं । यान्तीति गाथासक्षेपार्थः। व्यासार्थस्तु कथानकगम्यः, तच्चेदम् चम्पानगर्यो श्रेणिकराजपुत्रोऽशोकचन्द्रापरनामा कोणिकनरपतिबभूव, स च यथा श्रेणिकराजे प्राग्भवाबद्धवैरस्तहार्याया एव चेल्लणायाः सुतत्वेनोत्पेदे यथा च प्रवईमानो वैमात्रिककालादिकुमारदशकं प्रत्येक राज्यैकादशांशेष(शार्प )णेन सहायीकृत्य खपितरं श्रेणिकं बद्धा राज्यं स्वीकृतवान् यथा च विषभक्षणेन पितयुपरते तच्छोकेनैव । राजगृहनगरं परित्यज्य चम्पापुरी राजधानी चकार, यथा च स्वसहोदरहल्लविहल्लव्यतिकरात सम खमातामहचेटकराजेन सङ्ग्राममङ्गीकृत्य कालादिष्परतेषु संग्रहीतसमस्ततहलो बहोः कालात् महाकष्टेन वैशाली नगरी जग्राह, यथा च चेट. Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy