SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Education I आभिग्गहियमणाभिग्गहियं तह अभिनिवेसियं चैव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ || ४ || आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । यद्यपि चान्यत्राभोगानाभोगभेदेन द्विविधं मिध्यात्वमुक्तं, शेषभेदानामत्रैवान्तर्भावात्, तत्राभोगमिध्यात्वं सदेवतानामिति, तथाऽप्यवान्तरभेदापेक्षया प्रकरणकारेण पञ्चधेत्युक्तं, तत्राभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति, अभिग्रहः-- आग्रहस्तस्माज्जातमाभिग्रहिकं, क्रीतादेराकृतिगणत्वादिकण्, एवमुत्तरत्रापि, तद्विपरीतमनाभिग्रहिकम्, आभी|रादीनाम्, ईषन्माभ्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषाणां सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिस्तदनाभिग्रहिक - म्, 'आभिनिवेशिकम्'अभिनिवेशाद्-असदाग्रहा ज्जातं गोष्ठा माहिलादीनामिव, 'संसयियं' सांशयिकं संशयाज्जातं यदिदमु|क्तर्महता तत्त्वं जीवादि तन्न जाने तथा स्यादुतान्यथेत्येवंरूपम्, 'अनाभोगम्' आभोगो विशिष्टज्ञानं स न विद्यते यत्र तद्नाभोगं मिथ्यात्वं एकेन्द्रियादीनामिव, इत्येवं मिथ्यात्वं पञ्चधा भवति, कचित्त्वस्या गाथाया इत्थं पाठो दृश्यते - " अभिगहिय| मणभिगहियं मिच्छत्तं अभिनिवेसियं चेव । संसइयमणाभोगं तिविहं वा अहवऽणेगविहं ॥ ८ ॥ " तत्र पादत्रयव्याख्या | पूर्ववदेव, केवलं मिथ्यात्वशब्दो द्वितीयपादादिवत्र्त्यपि सर्वपदेषु संबध्यते - अभिग्रहिकं मिथ्यात्वमित्यादि, 'तिविहं व ' त्ति For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy