________________
दृढतरं स बन्धो भवेद् , अतोऽनिवृत्तिरेव प्रवृत्तिरिति सिद्ध, इतिहेतोः, यहा इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया ।
या दिशासु-आशासु विरतिः-गमनं प्रति विरमणं गुणवतमाद्यमिति शेषः, तदिह ज्ञातव्यमिति, कोऽर्थः ?-दिग्वतनामIN |कमाद्यगुणवतमत्र व्रतविचारेऽवगन्तव्यं स्वरूपेणेति गाथार्थः ॥ भेदद्वारमधुना
पुवावरउत्तरदाहिणेण उड्डे अहे य परिमाणं ।
छच्चेव तस्स भेया गुणवयस्सेह नायबा ।। ६७॥ इह दिग्वताभिधानगुणवतस्य दिषटुसम्बन्धेन षड् भेदा उच्यन्ते, तथा चाह-पूर्वापरोत्तरदक्षिणेनोर्ध्व-| मधश्च परिमाणं, तत्र प्राग्दिग्भागः पूर्वः, पश्चिमदिग्भागोऽपरः, उदग्दिग्भाग उत्तरो, याम्यदिग्भागो दक्षिणः, समाहारद्वन्द्वश्वात्र, ततः पूर्वादिदिग्भागेनैतावन्मया गन्तव्यं, एवं यत्परिमाणं तच्चतुर्दिगपेक्षया चतुर्विधं जातं, न केवलं पूर्वादिदिग्भागेन परिमाणं, तथोर्ध्वमधश्च-उपर्यधरताच्च 'परिमाणं' परिमितिः, अनेन च द्वयेन सह षोढा, नामग्राहं चैते भेदा एवं वाच्याः-पूर्वदिकपरिमाणं अपरदिक्परिमाणं उत्तरदिक्परिमाणं दक्षिणदिक्परिमाणं ऊर्ध्व-|| दिक्परिमाणमधोदिक्परिमाणमिति, अत एवाह- षट् चैव तस्य भेदाः' षडिति सङ्ख्या चशब्दोऽनुक्तसमुच्चयार्थः |
Jan Education Intematon
For Private Personel Use Only
www.jainelibrary.org