________________
श्रीनवदृट्ट विपरि
माणे.
॥ ९८७ ॥
कुलितचित्तवृत्तिः सकलसङ्गपरित्यागं कर्तुमसमर्थस्तथाऽप्येवंविधसाधुपरिभावनया जनिततद्बहुमानातिशयोच्छलितजीववीर्यः कुर्यादपीलापुत्रन्यायेनेति द्विपद्यर्थः । भणितं भावनाद्वारं, तणनाश्च समाप्तं नवभिरपि द्वारैः पञ्च| माणुत्रतं, तत्समाप्तौ गतानि पञ्चाणुव्रतानि, अधुना गुणवतानामवसरः, तानि च त्रीण्यपि प्रत्येकमेतैरेव नवद्वारैव्याख्येयानि, अत आदौ प्रथमं दिग्वतनामकं गुणव्रतमाद्यद्वारेणाह - तत्तायगोलकप्पो, अप्पा अणिवारिओ वहं कुणई |
इइ जा दिसासु विरई, गुणव्वयं तमिह नायव्वं ॥ ६६ ॥
' तप्तायोगोलकल्पः ' वह्निप्रतप्तलोहपिण्डतुल्यः 'आत्मा' जीवः ' अनिवारितः ' अप्रतिषिद्धः, दिशा| परिमाणेनानियन्त्रितदिग्विभाग इत्यर्थः ' वधं विनाशं जीवानामिति गम्यते ' करोति' विदधाति, तप्तायोगोल कल्पत्वं च जीवस्य प्रमत्ततया यथा तथा हिंसाहेतुत्वाद् अनिवृत्तिरेव प्रवृत्तिरितिवचनाद्वा, यदुक्तं - " तो बंधमणिच्छंतो कुज्जा सावज्जजोगविणिवित्तिं । अविसयअणिवित्तीएऽसुहभावा दृढयरं स भवे ॥ १ ॥ " ततः कर्मबन्धमनिच्छन् कुर्यात सावद्ययोगविनिवृत्तिम्, अविषयः - स्वयम्भूरमणादिस्तस्मिन्नप्यनिवृत्त्या - विरत्यकरणेनाशुभभावात् क्लिष्टाध्यवसायाद्
Jain Education International
For Private & Personal Use Only
स्वरूप. गा. ६६
॥ १८७ ॥
www.jainelibrary.org