SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्री नवपदट्ट६. चतुर्थे णुव्रते. ॥ १८५ ॥ Jain Education Inte भङ्गभयात्प्रददाति, पूर्णेऽबाधे ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचारः, तथा धनं-गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधं पूर्वं व्याख्यातमेव, आदिशब्दात् धान्यं - ब्रीह्यादि एतत्प्रमाणस्य बन्धनतोऽतिक्रमो भवति, तथाहि| किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च वतभङभयाच्चतुर्मासादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन - नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्त्रीकृत्य तद्नेह एव तत्स्थापयतोऽतिचारः, तथा द्विपदं - पुत्रकलत्रदासीदासकर्मकरशुकसारिकादिरूपम्, आदिशब्दाद्रवादिचतुष्पदपरिग्रहः, तेषां यत्परिमाणं तस्य कारणेन - गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम्-आसनशयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन - तत्पर्यायान्तररूपे. णातिक्रमो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन इयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणे सख्यापूरणात् स्वाभा For Private & Personal Use Only अतिचासः ॥ १८५ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy