________________
बीहिं कृत्वा सर्वपदानां कुप्यान्ताना द्वन्द्वे सति मानक्रमशब्देन षष्ठीसमासे च प्रत्येकं सम्बन्धी विधेयो, यथा का क्षेत्रादेर्मानक्रमो हिरण्यादेर्मानक्रम इत्यादि, मानक्रमश्च प्रमाणातिक्रमो भण्यते, तं नो करोती ति चरमपादान्ते क्रिया, गृहीतक्षेत्रादिपरिमाणः श्रावक इति सामर्थ्याद् गम्यं, कैर्न करोतीत्याह-योजनप्रदानबन्धनकारणभावैः ।। अत्र योजनादिपदानि पञ्च कृतद्वन्द्वानि तृतीयान्तानि, यथासङ्ख्येन चैषां सम्बन्धः, तेन क्षेत्रादिप्रमाणातिक्रमं । योजनेन ‘नो करोति' न विधत्ते इत्याद्यवगम्यमिति गाथासमुदायार्थः । अवयवार्थश्चायं-क्षेत्रं-सस्योत्पत्तिभूमिः तच्च सेतुकेतूभयभेदात्रिधा पूर्वोक्तम् , आदिशब्दाहास्तुग्रहो, वास्तु च-अगारं ग्रामनगरादि च तत्रागारं त्रिप्रकार प्रागुदितमेव, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य योजनेन-क्षेत्रान्तरादिमीलनेनातिकमोऽतिचारो भवति, तथाहिकिलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति बतभङ्गभयात्प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा । । पूर्वेण सह तस्यैकत्वकरणार्थ वृत्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाचाति
चार इति, तथा हिरण्यं-रजतमादिशब्दात्सुवर्ण तत्परिमाणस्य प्रदानेन-वितरणेनातिक्रमो भवति, यथा केनापिन चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितं, तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तच्चान्यस्मै व्रत
Jain Education Intel
For Private & Personel Use Only
Pilww.jainelibrary.org