SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ वा ? ॥ १० ॥ एवं पृष्टाः कथयामासुस्ते सरसि खन्यमानेऽमी । लब्धा मृदा विलिप्ता लोहधिया रहसि विधृताश्च ॥ ११ ॥ जिनदासस्य च हट्टेऽवतारिताः स्वीकृता न तेनैते । क्रीताश्च लोहमूल्येन लोभनन्देन ते केऽपि ॥ १२ ॥ सविशेष| मूल्य तोषितहृदया अनुदिवसमेव तद्विपणौ । विक्रीणीमः शेषा अद्यापि च केऽपि तिष्ठन्ति ॥ १३ ॥ श्रुत्वैवं तैः कथितं नृपतेराह्वायितश्च तेनासौ । जिनदास एव पूर्व पृष्टः किं स्वीकृता नैते ? ॥ १४ ॥ तेनोदितं परिग्रहपरिमाणं मम समस्ति तद्भङ्गः । मा भूदिति न गृहीताः कनकमया इति विदित्वाऽपि ॥ १५ ॥ तुष्टेन ततो राज्ञा संपूज्य | प्रेषितः स्वभवनं सः । पश्चाच्च लोभनन्दानयनाय प्रेषिताः पुरुषाः ॥ १६ ॥ इतश्च कृत्वा भोजनमेषोऽप्यायातो यावदुत्सुकः स्वगृहम् । व्यज्ञासी दगृहीतास्तांस्ततश्चिन्तयामास ॥ १७ ॥ अभविष्यतां ममांही यदि नैतौ वैरिणौ तदा-) ऽयास्यम् । मित्रगृहं कथमेतद्विचिन्त्य पादौ निजौ तेन ॥ १८ ॥ आहत्य कुठारेण छिन्नावत्रान्तरे नृपतिपुरुषाः । आगत्य ग्रीवायां प्रगृह्य निन्युर्नृपतिपार्श्वम् ॥ १९ ॥ राज्ञाऽप्यपहृत्य धनं निःशेषं चौरनिग्रहेणैषः । निग्रहितस्तदेवं | ज्ञात्वा लोभं समुत्सृजत ॥ २० ॥ त्यक्तलोभस्तु जिनदासवत्पूज्यो भवतीति गुणं विज्ञाय परिग्रहपरिमाणे यतितव्यमिति गुणद्वारोपदर्शकगाथाभावार्थः ॥ यतनाद्वारमिदानीमभिधीयते Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy