SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ बीनवपद- स्तस्य सन्तुष्टं यस्य मानसम् । उपानबूढपादस्य, ननु चर्मावृतैय भः॥१॥ जह २ अप्पो लोभो जह २ अप्पो गुणद्वारे मा. हचतुर्थेड-IN |५९ जिनणुव्रते. परिग्गहारंभो। तह तह सुहं पवडइ धम्मस्स य होइ संसिद्धी ॥२॥” इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकेनोच्यते--- नासा १३. पाटलिपुत्रे नगरे जिनदासः श्रावकोऽभवत् ख्यातः। सम्यग्दृष्टिः पञ्चाणुव्रतधारी गुणसमृद्धः॥१॥ तस्यान्यदा च हट्टे तडागखनने नृपेण विनियुक्तैः । कर्मकरैरानीताः स्वर्णमया लोहसदृशकुशाः॥२॥ परिमाणस्यातिक्रमभयेन जगृहे न तेन ते विदुषा । उपनीतास्तदनु च तैर्विपणौ खलु लोभनन्दस्य ॥ ३ ॥ तेनापि लोहमूल्येन । गृहीताः स्वर्णलोभतो भूयः । भणिता अन्येऽप्येवंप्राया अत्रैव विक्रेयाः ॥ ४ ॥ अज्ञानदोषतस्ते हेममयानपि च । लोहमूल्येन । विक्रीणान्ति प्रतिदिनमितरो लोभेन गृह्णाति ॥ ५॥ अन्येद्युस्तत्सुहृदः प्रकरणमभवद्गृहे किमपि तेन । आकार्य बलान्नीतोऽनिच्छन्नपि भोजनार्थमसौ ॥ ६ ॥ भणितः पुत्रो बजता स्वीकर्तव्या अनेन मूल्येन । यद्यायान्ति । कशास्ते न च मर्म प्रकटितं तस्य ॥ ७ ॥ लोहमया इति बुद्धया न च तन्मूल्येन तेन त उपात्ताः । मुग्धतया कर्मकरैर्नीता अन्येषु हट्टेषु ॥ ८॥ भवितव्यतावशेन च तेष्वेको निपतितः कथञ्चिदपि । पाषाणोपरि दृष्टो व्यपगतकिट्टः सुवर्णमयः ॥ ९॥ तन्निकटवर्तिभिर्दण्डपाशकैस्ते नरास्ततो भणिताः । कैते लब्धाः कधृताः कस्य वितीर्णाः कियन्तो Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy