________________
Jain Education Inter
ततः सुखेन तैः सार्द्ध, भूयः शुभविपाकः । त्रिवर्गाभिरतस्यास्य, कालशेषोऽप्यगच्छत ॥ ६३ ॥ तदेवं चारुदतोऽयं, च्युतः सर्वार्थमातुलात् । परिग्रहानिवृत्तात्मा, लेभे दुःखं यथा घनम् ॥ ६४ ॥ असन्तुष्टास्तथाऽन्येऽपि, | लभन्ते दुःखमङ्गिनः । परिग्रहाग्रहस्त्याज्यो, विदित्वैवं विवेकिभिः ॥ ६५ ॥ समाप्तं चारुदत्ताख्यानकम् । भणितं | दोषद्वारमधुनाऽस्यैव गुणद्वारमाह
जे इह परिमाणकडा, संतोसपरा दढवया धीरा । ते जिणदास व सयाहवंति सुहभाइणो लोए ॥ ५९ ॥
'ये' इत्यनिर्दिष्टनामानः, अनेन च प्राग्गाथातः पुरुषा अभिसंबध्यन्ते, 'इह ' अस्मिन् लोके ' परिमाणकडत्ति | कृतपरिमाणाः प्रस्तावाद्विहितपरिग्रहपरिमितयः सन्तोषः - इच्छानिरोधः स परः प्रकृष्टो येषां तस्मिन् वा पराः तन्निष्ठाः सन्तोषपराः, दृढं व्रतं येषां ते दृढव्रताः- यथावस्थितगृहीत नियमपालकाः कुतो हेतोः ? इत्याशङ्कायां विशेषणद्वारेण हेतुमाह - ' धीराः ' सात्त्विका यत इति शेषः, ते किमित्याह - जिनदास इव 'सदा सर्वदा 'भवन्ति जायन्ते 'सुखभागिन: ' शर्मभाज: ' लोके' जगति, न चेदं स्वमनीषिकयोच्यते, यत उक्तमन्यैरपि - " सर्वाः संपत्तय
For Private & Personal Use Only
www.jainelibrary.org