SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ मानवपद णुव्रते. धुर्मार्यमाणस्य, रुद्रेणास्य कृपापरः । चारुदत्तोऽवदधर्म, प्रतिपेदे स भावतः ॥१५०॥ ततस्तदनुभावेन, नमस्का-|| दोषे चारुद त्तिःगा. ५८ रादिभावितः । सौधर्मे त्रिदशो जातः, संत्यज्य पशुतामसौ ॥१५१ ॥ योऽसौ वाग्बीलजीवोऽभूट्टङ्कनेषु महानजः। प्रसादाच्चारुदत्तस्य, सोऽहं देवत्वमागतः ॥ ५२ ॥ अतो धर्मगुरुर्मेऽसौ, वन्दितः प्रथमं मुनेः । इत्युक्त्वा तौ । सुरस्तस्थौ, तावप्येवं तमूचतुः ॥ ५३ ॥ सत्यमेवोपकार्येष, यस्मादस्माकमप्ययम् । पितुर्बन्धविमोक्षण, कुलस्याप्युपकारकः ॥ ५४ ॥ चारुदत्तमवादीच्च, पुनर्देवः कृताञ्जलिः । कार्यं यत्तव तबहि, येन संसाधये प्रभो! ॥ ५५ ।। स्मरिष्यामि यदाऽहं त्वामागन्तव्यं तदा त्वया । इत्युक्ते तेन देवोऽसावेवमस्त्वित्यमन्यत ॥ ५६ ॥ भूयः प्रणम्य तं देवो, मुनिं चादृश्यतां गतः । खचरौ च यतिं नत्वा, निन्यतुस्तं निजं पुरम् ॥ ५७ ॥ विद्याधराङ्गनास्तत्र, प्रमोदभरनिर्भराः। जजल्पुरागतः सोऽयं, यः स्वामिप्राणदायकः ॥ ५८ ॥ यथाभिलषितस्थानशयनासनभोजनैः । अतिष्ठत स सखं तत्र, देववत्रिदिवालये ॥ ५९ ॥ मुक्तो विद्याधराभ्यां च, निन्ये चम्पापुरीमसौ । कदाचित्तेन देवने, प्रदाय प्रचुरं धनम् ॥ ६॥ मिलितो मातुलस्तत्र, सर्वार्थों जननी तथा । भार्या मित्रवती लोकः, सर्वोऽपि सुहदादिकः ॥ ६१ ॥ तद्वियोगदिनादेव, वेणीबन्धेन या स्थिता। गणिका वसन्तसेना, सा च भर्तृव्रतस्थिता ॥ ६२॥ in duet an innan For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy