________________
圈
तः गा. ५८
॥ १८९ ॥
चारुदत्तोऽपि मूलत । स्वां कथां कथयामास तत्रागमननिष्ठिताम् ॥ २५ ॥ अत्रान्तरे समायातो, विद्याधरनरो- ( दोषे चारुवतमौ । रूपेण सदृशं साधोद्यतयन्तौ नभोऽङ्गणम् ॥ २६ ॥ चारुदत्तेन तौ दृष्ट्वा, वन्दमानौ मुनीश्वरम् । अस्या | मितगतेः पुत्राविति चेतसि चिन्तितम् ॥ २७ ॥ कुलप्रसूतिसंसिद्ध विनयेन तमप्यमू । वन्दित्वोचितभूभागे, उपविष्टौ मुनिर्जगौ ॥ २८ ॥ भो ! भो ! स चारुदत्तोऽयमित्युक्तावादरेण तौ । ऊचतुः स्वागतं तेन पितुर्जीवितदायिनः ॥ २९ ॥ इतश्च नभसाऽऽयान्तं विमानं मुनिसंनिधौ । ददृशुः सर्व एवामी, दिव्यसङ्गीतनिस्वनम्। ॥ ३० ॥ ततोऽवतीर्य दिव्यात्मा, व्यालोलमणिकुण्डलः । सुपर्वा चारुदत्तस्य ववन्दे चरणद्वयम् ॥ ३१ ॥ साधुं तदनु वन्दित्वा चारुदत्तस्य सम्मुखः । उपविष्ट उपालब्धः खचराभ्यामेवमञ्जसा ॥ ३२ ॥ देवेभ्यो विधयः सर्वे, प्रवर्त्तन्तेऽत्र निश्चितम् । तत्किं साधुं व्यतिक्रम्य वन्दितः श्रावकस्त्वया ? ॥ ३३ ॥ सोऽभ्यधादयमस्माकं धर्माचार्यों यतोऽमुतः । धर्म धर्मफलं देवं गुरुं च ज्ञातवानहम् ॥ ३४ ॥ कथमेवमिति प्रोक्ते, खचराभ्यां सुरोऽवदत् । वाराणस्यां पुराऽभूतां सुभद्रासुलसाभिधे || ३५ ॥ द्वे परिवाजके वेदवेदाङ्गादिविशारदे ! अन्यदा याज्ञवल्क्येन विवादे सुलसा जिता ॥ ३६ ॥ तत्प्रभृत्येव सा तस्य, शुश्रूषानिरताऽभवत् ।
श्रीनवदट्ट - ह. चतुथड
तादान
Jain Education Inter
For Private & Personal Use Only
॥ १८१
www.jainelibrary.org